This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'विभोषणागमनो' नाम द्वादशः सर्गः - ३०७
हेतौ टः । तारामिव । यथा काचित्तारा क्षितौ स्थिता पतिता नीहारपरीत मृर्तिः
शान्तशिखामताना ध्वस्तरहिमजाला लोकनासकरी तद्वत्तामिति ॥
९३५ - बावन् न संत्रासित - देव-संघः
 
पिण्डो विषस्यैव हरेण भीष्मः ॥
संग्रस्यते ऽसौ पुरुषऽधिपेन,
 
द्रुतं कुलाऽऽनन्द ! यतस्व तावत् ॥ ४ ॥
 
यावदित्यादि-
- यथा संत्रासितदेवसंघः विपस्य कालकूटस्य पिण्डो भीष्मो-
अतिरौद्रोहरेण संत्रस्तः पीतः तद्द्यावदसौ रात्रणः पुरुषाधिपेन रामेण न संग्र-
स्वते व ते तावत् हे कुलानन्द ! कुलाने आनन्दयतीति । २९१३।
कर्मण्यम् ।३।२।१॥ द्रुतं यतस्त्र सीतात्याजनायां यत्नं कुरु ॥
९३६ - हला जनस्थान - सदो निकायाः,
कृता जितोत्खात भट-द्रुमा पूः ॥
सदांसि दग्धानि, विधेयर्मस्मिन्
 
,
 
यद् वन्धुना, तद् घटयस्व तस्मिन् ॥ ५ ॥
 
हता इत्यादि - जनस्थानसदो दण्डकारण्यवासिनः निकाया: खरदूषणादीनां
संवा हताः । '२३१४ । संघे चानौत्तराधर्ये ।३।३।४२ ।' इति चिनोतेः घञ् ककार-
श्वादेशः । पूश्च लङ्का जितसटा उत्खात द्रुमा कृता । सदांसि गृहाणि दुग्धानि । इति
सर्वमेतत्त्वया ज्ञातमेव । अनेन प्रकारेण अस्माकमपि विनाशः स्यात् । तदेतस्मि-
न्वस्तुनि यद्वन्धुना विधेयं अनुष्ठेयं तद्विधातुं घटयस्व यतस्त्र । तस्मिन्वस्तुनि ।
 
९३७ - चिकीर्षिते पूर्व तरं स तस्मिन्
क्षेमं करे ऽर्थे मुहुरीर्यमाणः ॥
मात्रा ऽतिमात्रं शुभयैव बुद्ध्या
 
चिरं सुधीर॑भ्यधिकं समाधात् ॥ ६ ॥
 
चिकीर्पित इत्यादि – तस्मिन् सीताप्रत्यर्पणलक्षणेऽर्थे मातुरुपदेशात् पूर्व-
तरं पूर्वमेव चिकीर्षिते कर्तुमीप्सिते मात्रा शुभयैव बुद्ध्या कल्याणया अतिमात्र-
मत्यर्थं मुहुः क्षणमीर्यमाणः प्रवर्तमानः स विभीषणः सुधीः प्राज्ञः चिरकालम-
भ्यधिकं समाधात् चिन्तितवान् । इदमतिन्याय्यमिति । '२२२३। गाति स्था-
।२।४।७७७।' इति सिचो लुक् ॥
 
इयता प्रबन्धेन उदात्तार्थाभिधानादुदात्तार्थत्वमुक्तम् । इत उत्तरं प्रहस्त-रावण-
विभीषण-मातामह-कुम्भकर्ण्यदीनां वचनप्रबन्धेषु चित्राद्भुतार्थत्वं दृष्टव्यम् ।