This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'प्रभातवर्णनं' नाम एकादशः सर्गः - ३०५
सत विधाते॒क-रसैर॑विक्षत्
 
सदः परिक्षोभित-भूमि-भागम् ॥ ४५ ॥
 
मायाविभिरित्यादि – आतैरव्यभिचारिभिर्मायाविभिर्वञ्चकैः परेषां त्रास-
करैः । जनानामतिरौद्भृत्वात् । उपादानपरैः सतां सन्मार्गस्थितानां विधातैकर से
विनाशकस्वभावैः उपेतो दशास्यः सदः सभामविक्षत् प्रविष्टः । '२३३६) शल
इनुपधानिटः क्सः ।३॥४५ । कीदृशम् । राक्षसैश्चरणभागेन परिक्षोभित-
भूमिभागम् ॥
 
९३० - विधृत निशित-शस्त्रैस् तद् युतं यातुधानै-
रुरु-जठर-मुखीभिः संकुलं राक्षसीभिः ॥
श्वगणि-शत- विकीर्ण वागुरान्वन् मृगीभिर्
वनमि॑िव स भयाभिर् देव-बन्दीभिरासीत् ॥ ४६॥
 
विधृतेत्यादि-
तत्सदो यातुधानैः विवतनिशितशस्त्रैः गृहीततीक्ष्णशस्त्रैर्युतं
युक्तमासीत् । तथा राक्षसीभिः उरुजठरमुखीभिः संकुलं व्याप्तं यथा वनं वागुरावत्
सवागुरं श्वगणिशतविकीर्णं आखेटकशतच्छन्नं मृगीभिः समयाभिः श्वगणि(के)भ्यो
जातभयाभिः व्याप्तमासीत् श्वगणा विद्यन्ते येषामिति श्रगणि[ नः ] काः । '१९२२ ।
अतः - ।५।२।११५॥ इति [ इनि ] ठक् ॥
 
९३१ - जलद इत्र तडित्वान् प्राज्य रत्न - प्रभाभिः
प्रति - ककुभमुदस्यन् निस्वनं धीर-मन्द्रम् ॥
शिखरमि॑व सुमेरो सनं हैमर्मुच्चैर्
विविध - मणि - विचित्रं प्रा॑मो॒न्नतं सोऽध्यतिष्ठत् ॥४७॥
 
इति भट्टिकाव्ये एकादशः सर्गः ॥
 
जलद इत्यादि — प्राज्यानां प्रभूतानां रत्नानां मणीनां प्रभाभिः तडित्वानिव
जलद : प्रोन्नतात्मा सर्वेषामुपरि स्थितत्वात् । प्रतिककुभं दिशि दिशि । घीरमन्द्रं
मन्दगम्भीरं निस्वनं उदस्यन्निक्षिपन् सुमेरोः शिखरमिव हैममासनमुच्चैरुञ्चं विविध-
मणिविचित्रं नानारूपैर्मणिभिर्विचित्रं नानावर्णकमध्यतिष्टत् समारोहति स्म ॥
 
इति श्री जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री-भट्टिकाव्ये
तृतीये प्रसन्न काण्डे लक्षण-रूपे द्वितीयः परिच्छेदः (वर्गः ),
तथा लक्ष्य-रूपे कथानके 'प्रभातवर्णनं' नाम
एकादशः सर्गः ॥ ११ ॥