2022-08-11 05:46:32 by akprasad
This page has been fully proofread once and needs a second look.
अभूदित्यादि -- तस्य हीष्टदेवता सनातनो विष्णुः । स चादौ कीर्तितः ।
तत्प्रतिबन्धना चेयं कथेति प्रबन्धेनैवात्र संकीर्तनं रामायणवत् । तत्र विष्णोर्य-
स्मिन्काले जगत्कार्यवशादवतारः कृतस्तदेव प्रथमं दर्शयति । अभूदिति भूतसा-
मान्ये लुङ् | भूत इत्यर्थः । अन्यथा राज्ञश्चिरातीतत्वात्कवेः परोक्षत्वाच्च लिट्
स्यात् । '२२२३ | गाति-स्था-।२।४।७७।' इति सिचो लुक् । '२२२४ । भू-सुवो-
स्तिङि ।७।३।८८।' इति गुणप्रतिषेधः ॥ 'नयतेर्डिच्च' इति नयतेरौणादिक ऋन् ।
नरो मनुष्यास्तान्नॄन्पातीति । '२९१५ । आतोऽनुपसर्गे कः ।३।२।३।’ । ‘२३७२।
आतो लोपः-।६।४।६३।' नृपो राजा । अत्यन्तधर्मविजयित्वाद्देवराजस्य मित्र-
मासीदित्याह--विबुधसख इति । विबुध्यन्त इति विबुधा देवास्तेषामपि प्रधा-
नत्वात् । तत्रेगुपधलक्षणः कः । सामान्यशब्दोऽपि देवेषु वर्तमानोऽप्यथवशा-
च्छक्रे प्रयुक्तस्तस्य सखेति । '७८८ । राजाऽहःसखिभ्यष्टच् ।५।४।११।' विदुध-
सखः । अनेन धर्मविजयित्वं दर्शयति विबुधसखत्वस्य धर्मकार्यत्वात् । सुरलो-
कविजयिनश्च ये राजानस्तेषां धर्मविजयी प्रधानम् । परे शत्रवस्त्रिविधाः--
उच्छेदनीयोपपीडनीयकर्षणीयाः । तत्र ये उपपीडनीयकर्षणीयास्तान्परांस्तापय-
तीति परंतपः । '२९५४। द्विषत्परयोस्तापेः ।३।२।३९॥ इति खच् । '२९५५ ।
खचि ह्रस्वः ।६।४।९४।' । '२९४२ । अरुर्द्विषदजन्तस्य- ।६।३।६७।' इति मुम् ।
नृप इत्यनेन स्वमण्डले वृत्तिराख्याता । परंतप इति परमण्डले । श्रूयन्त इति
श्रुतानि वेदादीनि तैरन्वितः संबद्धः । ग्रन्थतोऽर्थतश्च गृहीतत्वात् । दशरथ
इत्यनेन नाम्नोदाहृतो लोके गीतः ॥ गुण्यन्तेऽभ्यस्यन्त इति गुणाः । '२०४० ।
गुण आमन्त्रणे ।' इति चौरादिकोऽदन्तः । तस्मात् '३१८८। अकर्तरि च-१३१३ |
१९।' इत्यादिना घञ् । येषाम् 'एरजण्यन्तानाम्' इति दर्शनम् । येषां तन्नास्ति
तेषामेरच् | स्वरं प्रति विवादो न रूपं प्रति । गुणैरभिरामत्वादिभिर्वरं श्रेष्ठं
यं नृपं पितरमुपागमदिति संबन्धः । व्रियत इति वरः । '३२३४। ग्रह-वृ-दृ-।३।३।५८।' इत्यादिना कर्मण्यप् । केन हेतुनोपगतवांस्तं पितरं सनातन इत्यत
आह--भुवनहितच्छलेनेति । भवन्त्युत्पद्यन्त इति भुवनानि । भूर्भुवःस्वरिति
यो लोकाः । 'रजः क्युन्' इत्यनुवर्तमाने 'भू-सू-धू-सर्जिभ्यश्छन्दसि'
इत्यौणादिकः क्युन्बहुलवचनाद्भाषायामपि भवति । तेभ्यो हिता भुवनहिता
विष्णोर्दशावताराः । इह तु रामो द्रष्टव्यः । तच्छलेन व्याजेन भुवनहितच्छलेन ।
इदानीं रावणादि-कण्टकोद्धरणात् । तथा चोक्तम्--'परित्राणाय साधूनां
विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥' इति ।
सनेत्यव्ययं सदार्थे वर्तते । सना भवतीति । १३९१ । सायं चिरम्--।४।३।२३।'
इति ट्युट्युलौ तुट् च । सनातनो विष्णुरुपागमदुपजगाम । ऌदित्वादङ् ।
सत्स्वन्येषु राजसु गुणैर्वरत्वाद्यं पितरं जनकमङ्गीकृतवान्सोऽभूदिति योज्यम् ।
स्वयमित्यात्मना न कर्मणान्येन वा प्रेरित इत्यर्थः ॥