This page has not been fully proofread.

३०४ भट्टि काव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे द्वितीयो वर्गः,
९२६ - निकृत्त-मत्त - द्विप-कुम्भ-मांसैः
संपृक्त-मुक्तैर् हरयोऽग्र- पादैः ॥
आनिन्थिरे श्रेणीकृतास् तथा ऽन्यैः
परस्परं वालधि - सन्निवद्धाः ॥ ४२ ॥
 
.
 
निकृत्तेत्यादि – अन्यैः सेवार्थ हरयः सिंहाः आनिन्थिरे आनीताः । निक-
तानि मत्तद्विपकुम्भमांसानि यैरग्रपादैः अतएव संपृक्तमुक्तैः लग्नकुम्भमुक्ताफला
उपलक्षिताः श्रेणीकृता अश्रेणयः श्रेणयः कृताः । '७३८। श्रेण्यादयः-।२।१।१९॥
इति सः । परस्परं वालधिसंनिबद्धाः अन्योन्यस्य पुच्छेन संयताः ॥
 
९२७ - उपेक्षिता देव -गणैस् त्रसद्भिर्
निशा-चरैर् वीत- भयैर् निकृत्ताः ॥
तस्मि॒न्न॑दृश्यन्त सुर-द्रुमाणां
 
स- जाल-पुष्प-स्तवकाः प्रकीर्णाः ॥ ४३ ॥
उपेक्षिता इत्यादि – सुरद्रुमाणां पारिजातानां सजालाः कलिकासहिताः
पुष्पस्तबकाः वीतभयैर्निशाचरैनिंकृत्ताः छिन्नाः । वीतदयैरिति पाठान्तरम् । तत्र
किमेतैः स्थितैरिति निर्दयैः सजाला एव छिन्ना: छिद्यमानाश्च । देवगणैत्रसद्भिरु-
पेक्षिताः । '२३२१॥ वा भ्राश - ।३।१२।७०।' इत्यादिना विकल्पेन श्यन् । तस्मिन्
राजाङ्गणे प्रकीर्णा अदृश्यन्त सेवकजनेन ॥
 
९२८ - निराकरिष्णुर् द्विज-कुञ्जराणां
तृणीकृतता॒ऽशेष-गुणोऽति-मोहात् ॥
पापा॒ऽशयान॑भ्युदया॒ऽर्थमाचत्
 
प्राग् ब्रह्म-रक्षः प्रवरान् दशऽऽस्यः ॥ ४४ ॥
निराकरिष्णुरित्यादि-शास्यो विबुद्धः सन् अतिमोहादत्यन्ताज्ञानात् नि -
राकरिष्णुर्निराकरणशीलः । द्विजवरा नित्यर्थात् । द्विजकुञ्जराणां प्रशस्तद्विजानां अभ्यु-
दयहेतूनां संवन्धिनोऽशेपा गुणाः तृणीकृता येन स तृणीकृताशेषगुणः प्राक् पूर्व
सभाप्रवेशात् पापाशयान् पापचित्तवृत्तीन् ब्रह्मरक्षःप्रवरान् अभ्युदयार्थमाचत् ॥
९२९ - मायाविभिस् त्रास करैर् जनाना-
मप्तैिरुपादान-परैरुपेतः ॥
 
-
 
१ – अत्र छन्दोभङ्गपरिहारार्थे 'श्रेणिकृताः' इत्येव युक्तं प्रतिभाति । '२१२० । चौ च-'
।७।४।२६।' इति शास्त्रापेक्षया 'अपि माषं मषं कुर्याच्छन्दोभङ्गं न कारयेत्' इति छन्द:-
शास्त्रस्य प्रबलत्वात् ।