This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'प्रभातवर्णन' नाम एकादशः
सर्गः- ३०३
 
यथास्वं कुलधर्मस्य पुरस्य वा संपद्विभूतिः तस्या अनुकूलान् वेशानेपथ्यानि
विधाय कृत्वा शतम न्युविद्विषो रावणस्य प्रबोधकाले राजनिकेतनं प्रत्यभिलक्ष्य
प्रचक्रमे गन्तुं प्रवृत्तः । '२७१५ । प्रोपाभ्यां समर्थाभ्याम् । १।३।४२॥ ' इति तङ् ॥
९२३ – शैलेन्द्र-शृङ्गेभ्य इव प्रवृत्ता
वेगाज् जलौघाः पुर - मन्दिरेभ्यः ॥
आपूर्य रथ्याः सरितो जनधा
राजा॒ऽङ्गनाऽम्भोधिम॑पूरयन्त ॥ ३९ ॥
 
शैलेन्द्रशृङ्गेभ्य इत्यादि
– यथा जलानां पूराः शैलेन्द्रशृङ्गात् प्रवर्तन्ते
तद्वत्पुरमन्दिरेभ्यः प्रवृत्ता जनौवाः रथ्याः सरित इवापूर्य राजाङ्गनमम्भोविमिवा-
पूरयन्त पूरितवन्तः ॥
 
९२४ - प्रवोध - कालात् त्रिदशेन्द्र-शत्रो:
 
प्रार्ध्व-शोषं परिशुष्यमाणाः ॥
 
हीना महान्तश च सम-त्वमयुर्
द्वास्- स्थैर॑वज्ञा-परुषऽक्षि दृष्टाः ॥ ४० ॥
 
प्रबोधकालादित्यादि - त्रिदशेन्द्रशत्रोः रावणस्य प्रबोधकालाप्राक् पूर्व
ऊर्ध्वशोषं परिशुष्यमाणाः राजाङ्गने ऊर्ध्वं गता एव प्रबोधकाले शोषं नीयमाना
इति अन्तर्भावितण्यर्थो द्रष्टव्यः । एवं च कृत्वा कर्मण्यात्मनेपदम् । अन्ये परि-
शोष्यमाणा इति णिचं पठन्ति । '३३६५। ऊर्ध्वे शुषि-।३।४।४४ । इति णमुल ।
हीना: महान्तश्च सेवकाः समत्वं तुल्यत्वमीयुः । द्वास्थैवारिकैः । द्वारि तिष्ठ-
न्तीति '२९१६ । सुपि स्थः । ३ । २।१४॥ इति कः । '७६ । खरवसानयोर्विसर्जनीयः
।८।३।१५।' इति [ विसर्जनीये ] '१३८ । विसर्जनीयस्य सः ।८।३।३४॥ अवज्ञया
अनादरेण परुषमस्निग्धं यदक्षि तेनाक्ष्णा दृष्टाः ॥
 
९२५–गुरूरु-चञ्चत्-कर-कर्ण-जिह्रै-
रेवज्ञया ऽग्रऽङ्गुलि - संगृहीतैः ॥
रक्षांस्य॑नायास
ह॒तैरुपास्थुः
 
कपोल- लीनाSलि-कुलैर् गजेन्द्रैः ॥ ४१ ॥
 
.
 
गुरुरुचञ्चदित्यादि — गुरुवोऽलघवः, उरवो महान्तः, चञ्चन्तश्चलन्तः
कराः कर्णा जिह्वाश्च येषां गजेन्द्राणां तैः अवज्ञया अग्राङ्गुलिसंगृहीतैः पादाङ्गुष्ठा-
ग्रेण यत्रस्थाने परिगृहीतैः । अङ्गुलेरग्रमिति राजदन्तादित्वात् पूर्वनिपातः ।
अनायासहृतैः शनैः शनैः प्रचोदितैः । मत्तत्वात् कपोल-लीनाऽलि-कुलै: रक्षांसि
उपास्थुः सेवामकार्षुः ॥