This page has not been fully proofread.

३०९ भट्टि काव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे द्वितीयो वर्गः,
 
-
 
संभृष्टेत्यादि -- देवैः सेव्यस्यापि नन्दनस्य लक्ष्मीर्भवनैः प्रातर्विजिग्ये विजिता ।
आदौ संमृष्टरजांसि अपनीतरजांसि पश्चात्सितानि । पूर्वापरकालसमासः ।
अर्चितानि पूजितानि प्रशस्तानि चारूणि शोभनानि पुष्पाणि येषु भवनेषु संमृष्ट-
सिक्कानि च तानि अर्चितचारुपुष्पाणि चेति विशेषणसमासः । आमोदवन्ति
यानि द्रव्याणि चन्दनादीनि तैः सुगन्धो भाग एकदेशो येषां तैः । गन्धस्येवे-
तदेकान्तग्रहणादित्वं न भवति । सभृङ्गैरामोदभृतत्वात् ॥
 
९२० - अक्ष्णोः पतन् नील-सरो-ज-लोभाद्
भृङ्गः करेणा ऽल्प-धिया निरस्तः ॥
 
दद॑श
 
ताम्रऽम्बुरुहा॒ऽभिसन्धिस्
 
तृणा॒ऽऽतुरः पाणि-तले ऽपि धृष्णुः ॥ ३६ ॥
 
अक्ष्णोरित्यादि — नीलसरोजलोभात् नीलकमलमेतदित्यक्ष्णोः पतन्निलीय-
नानो भृङ्गः अल्पधिया अल्पबुद्ध्या कयाचित् करेण निरस्तः क्षिप्तः सन् ताम्राम्बु-
रुहाभिसन्धिः रक्तपद्ममेतदित्यभिसन्धिरभिप्रायो यस्य भृङ्गस्य स धृष्णुः प्रगल्भः
पागितलेऽपि दंश दृष्टवान् । तामित्यर्थात् ॥
 
९२१ - विलोल-तां चक्षुषि हस्त-वेपथुं
 
भ्रुवोर् विभङ्गं स्तन-युग्म-वल्गितम् ॥
विभूषणानां कणितं च षट्-पदो
गुरुर् यथा नृत्य - विधौ समादधे ॥ ३७ ॥
 
विलोलतामित्यादि- यथा गुरुर्नृत्याचार्यो नृत्यकर्मणि कस्याश्चिचक्षुषि वि
लोलतां चलतां हस्तवेपथुं हस्तकम्पं भ्रुवोर्विभङ्गं नतोन्नतिं स्तनयुग्मवल्गितं प्रचलितं
नूपणानां कणितं शिक्षितं जनयति, तद् दृष्ट्वा षट्पदोऽपि तत्समादधे विहितवान् ॥
९२२
- अथा ऽनुकूलान् कुल- धर्म - संपदो
विधाय वेशान् सु - दिवः पुरी जनः ॥
प्रबोध-काले शत-मन्यु- विद्विषः
 
प्रचक्रमे राज-निकेतनं प्रति ॥ ३८ ॥
 
-
 
अथेत्यादि – अथानन्तरं पुरीजनो लङ्कानिवासिजनः प्रतिदिनमवाप्तकल्या
णत्वात् सुदिवः । '८६०। सुप्रात-।५।४।१३० । इत्यादिना समासान्तनिपातनम् ।
 
१ – अत्र 'तृष्णाऽऽतुरः' इति पाठो युक्त इति भाति । तेन हि ताम्राम्बुरुहाभिसंधित्वात्
मकरन्दतृष्णया पीडित इति सरलार्थः प्रतिपद्यते । यथास्थितपाठपक्षे तु सूक्ष्मत्वातृणसदृश-
मृणालतन्तुष्वातुरः सस्पृह इति कथंचिदुन्नेयम् ।