2023-02-15 17:22:37 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'प्रभातवर्णनं' नाम एकादशः सर्गः - ३०१
प्रातस्तरामित्यादि - गुरुजनो नखदशनक्षतं का दाक्षीदिति युवानः प्रातस्तरां
प्रत्युपसि चन्दनलिप्तगात्रा हस्तैरधरान् प्रच्छाद्य वदन्तोऽपि शाम्यन्निमेषा अनिमि-
पितनेत्रा निगृहनीयं सुतरां प्रकाशयन्ति स्म नून मेते सत्कृता येन एव माचरन्तीति ॥
९१६ - सानैव लोके विजिते ऽपि वामे !
किमु॑द्यतं भ्रू- धनुरे प्रसह्यम् ॥
हन्तुं क्षमो वा वद लोचने॒षुर्
दिग्धो विषेणैव किमञ्जनेन ॥ ३२ ॥
साम्नेत्यादि – हे वामे प्रतिकूलदर्तिनि ! मधुरेणाविकृतेन सान्ना लोके
अस्मद्विधे जितेऽपि वशीकृतेऽपि भ्रूधनुरग्रसह्यं प्रसोढुमशक्यं उद्यतं उत्क्षिप्तम् ।
अथवा विलोचने पुर्नेत्रशरः स्वत एव हन्तुं क्षमः ततः किमञ्जनेन च विषेण
दिग्धो विपलिप्त इति वद कथय ॥
९१७ – दन्त-च्छदे प्रज्वलिताऽग्नि- कल्पे
ताम्बूल-रागस् तृण-भार-तुल्यः ॥
न्यस्तः किमित्यूंचुरुपेत- भावा
गोष्ठीषु नारीस् तरुणीर् युवानः ॥ ३३ ॥
दन्तच्छद इत्यादि – प्रज्वलिताग्निकल्पे स्वभावलोहितत्वात् दन्तच्छदे ओष्ठे
ताम्बूलरागः किमिति न्यस्तः । तृणभारतुल्यः निष्प्रयोजनत्वात् । इत्येवमूचुर्यु-
चानः प्रातरित्यर्थात् । उपेतभावाः जातानुरागाः गोष्ठीषु स्थिता नारीस्तरुणीरिति ॥
९१८ - सुखाऽवगाहानि युतानि लक्ष्म्या
शुचीनि संताप- हरायु॑रूणि ॥
प्रवुद्ध - नारी-मुख-पङ्क-जानि
I
प्रातः सरांसीव गृहाणि रेजुः ॥ ३४ ॥
सुखावगाहानीत्यादि- - प्रातः प्रभाते गृहाणि सरांसीव रेजुः । सुखाव-
गाहानि निरुपद्रवत्वात् सुखेनावगाह्यन्ते । युतानि लक्ष्म्या देवतारूपया । शुचीनि
पवित्राणि । संतापहराणि धर्मादिक्लेशापहारीणि । उरूणि महान्ति । प्रबुद्धानि
विनिद्वाणि । नारीमुखान्येव पङ्कजानि यत्रेति ॥
९१९–संमृष्ट-सिक्ताऽर्चित- चारु-पुष्प-
रामोद-वद्-द्रव्य - सुगन्ध-भागैः ॥
लक्ष्मीर् विजिग्ये भवनैः स भृङ्गैः
सेव्यस्य देवैरपि नन्दनस्य ॥ ३५ ॥
भ० का० २६