This page has not been fully proofread.

३०० भट्टि- काव्ये – तृतीये प्रसन्न काण्डे लक्षण-रूपे द्वितीयो वर्गः,
 
वाह्यं जहपुः हृष्टाः । अप्राप्तसुरतत्वात् मन्दायमानानुशयैः आभिः सह शयिता
इति तासु ये अनुशया: अक्षान्तयो जात्राः ते मन्दायमानाः शनैः शनैस्तनूभवन्तो
येपु मनःसु तैरित्यर्थः ॥
 
९१२ - स्मराऽऽतुरे चेतसि लव्ध - जन्मा
रराज लोलोऽपि गुणाऽपहार्यः ॥
कुतूहलान् नेत्र - गवाक्ष-संस्थ:
 
पश्यन्निवा ऽन्योन्य मुखानि रागः ॥ २८ ॥
स्मरातुर इत्यादि – दम्पत्योः प्रातरन्योन्यस्य मुखं पश्यतोः चक्षुषो रागो
वर्ण्यते । स्मरातुरे कामातुरे चेतसि लब्धजन्मा लव्वोदयः रागो रक्तभावः नेत्र-
गवाक्षसंस्थः नेत्रयोर्गवाक्षयोरिव स्थितः कुतूहलात् कौतुकात् अन्योन्यस्य मुखानि
पश्यन्निव । कीदृशं कामिन्या मुखं कामुकस्य मुखं वेति । गुणापहार्यः तत्प्रतिपक्षेण
शुक्रगुणेन अपनेयः अत एव लोलोऽपि अचिरस्थाय्यपि रराज ॥
 
९१३ गते ऽतिभूमिं प्रणये प्रयुक्ता-
नं- बुद्धि पूर्व परिलुप्तसंज्ञः ॥
आत्माऽनुभूतानपि नौपचारान्
 
स्मरा॒ऽऽतुरः संस्मरति स्म लोकः ॥ २९ ॥
 
गते इत्यादि — प्रणये विश्रम्भे अतिभूमिं गते प्रकृष्टावस्थां प्राप्ते सति ये
अबुद्धिपूर्वं अनिरूप्य स्वयं प्रयुक्ताः उपचाराः नखदन्तक्षतादयः तानात्मानुभूतानपि
प्रातर्न स्मरति स्म कामिलोकः । इदमिदं मया प्रयुक्तमिति । यतः सुरतावस्थायां
स्मरातुरतया परिलुप्तसंज्ञो मूढ़ इति ॥
 
९१४ - वस्खैर नृत्युलवण रम्य वर्णैर्
विलेपनैः सौरभ-लक्षणीयैः ॥
 
आस्यैश् च लोकः परितोष-कान्तै-
रसूचयल लब्ध-पर्द रहस्यम् ॥ ३० ॥
 
वस्त्रैरित्यादि – वस्त्रैः
 
विलेपनैः सौरभलक्षणीयैः सुरभितया परिच्छेद्यैः
आस्यैश्च व्यपगताधररागैः परितोपकान्तैर्लिङ्ग भूतैः रहास भवं सुरतं लब्धपदं
प्राप्तचिह्नं लोकः प्रकाशयति स्म ॥
 
९१५ - प्रातस्तरां चन्दन - लिव-गात्रा:
 
प्रच्छाद्य हस्तैरधरान् वदन्तः ॥
शाम्यन्- निमेषाः सुतरां युवानः
 
. प्रकाशयन्ति स्म निगूहनीयम् ॥ ३१ ॥