This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'प्रभातवर्णनं' नाम एकादशः सर्गः-
कुर्वन् स-वासं च सु-गन्धि वक्रं
 
चक्रे जनः केवल-पक्षपातम् ॥ २४ ॥
चक्षूंपीत्यादि-कान्तान्यपि शोभनान्यपि चक्षूंपि, बिकचोत्पलद्युतित्वात् ।
साञ्जनानि कुर्वन् स्त्रीजनः, प्रातर्गृह्यमाणमसाधनत्वात् । सरागं चौष्टं, स्वभावतो
विम्बफलाकारत्वात् । ताम्बूलरतं कुर्वन् । स्वभावतश्च सुगन्धि वक्रं मुखं सवासं
वासयुक्तं कुर्वन् । केवलपक्षपातं समत्वं चक्रे अञ्जनादीनां निरर्थकत्वात् ॥
९०९ - क्षतैर॑संचेतित-दन्त-लव्धैः
 
२९९
 
संभोग - काले ऽवगतैः प्रभाते ॥
अ-शङ्कता ऽन्योन्य कृतं व्यलीकं
 
वियोग चाह्यो ऽपि जनो ऽतिरागात् ॥ २५ ॥
क्षतैरित्यादि – अस्या मया दत्तं अस्य च मयेति संभोगकाले रागान्धतया
असंकेतितान्यज्ञातानि दन्तेभ्यो लब्धानि यानि क्षतानि । '१८०२ । चिव संचेतने'
इति स्वार्थिकण्यन्तस्य रूपम् । प्रभातकाले अवगतैर्दृष्टैः वियोगबाह्योऽपि सुप्तोऽपि
कामिजन: अतिरागात् अतिस्त्रेहात् अन्योन्यकृतं अन्योन्येन कृतं व्यलीकं अपराधं
अशङ्कत विकल्पितवान् । लङि रूपम् । किमस्यान्यया हताशया दत्तमिति योषि-
दशङ्कत, पुरुषोऽपि किमन्येन धूर्तेनास्या इति ॥
 
९१० - नेत्रेषुभिः संयुत-पक्ष्म-
-पत्रैः
कर्णाऽन्त कृठैरु॑रु - केश - शूलाः ॥
-
स्तनो॒रु-चक्रास् तत-कर्ण-पाशाः
 
स्त्री-योध- मुख्या जयिनो विचेरुः ॥ २६ ॥
नेत्रेपुभिरित्यादि – नेत्राणि इषव इव तैः संयुतानि संयुक्तानि पक्ष्माण्येव
पत्राणि येषां तैः । कर्णान्तकृष्ठैः कर्णान्तविश्रान्तैः उपलक्षिताः स्त्रियो योधमुख्या
इव उरुकेशशूलाः उरवो महान्तः केशाः शूला इव येषाम् । स्तनोरुचक्रा: स्तनाः
उरूणि चक्राणीव येषाम् । ततकर्णपाशाः तताः कर्णाः पाशा इव येषां ते जयिनो
लब्धविजया विचेरुः भ्रान्ताः ॥
 
९११ - पयो - धरांश चन्दन-पङ्क-दिग्धान्
वासांसि चा ऽमृष्ट-मृजानि दृष्ट्वा ॥
स्त्रीणां स पत्यो जहषुः प्रभाते
मन्दायमानाऽनुशयैर् मनोभिः ॥ २७ ॥
 
पयोधरानित्यादि – चन्दनपदिग्धान् आद्भुतचन्दनत्वात् । वस्त्राणि च
अमृष्टमृजानि अनपनीतशुद्धभावानि स्त्रीणां दृष्ट्वा प्रभाते तत्सपत्यो मनोमिः न