This page has not been fully proofread.

२९८ भट्टि - काव्ये – तृतीये प्रसन्न काण्डे लक्षण-रूपे द्वितीयो वर्गः,
 
"
 
यस्मिन् तत् । विवस्वानुद्यन् उदच्छन् सन्ततरहिमरज्जुः प्रवितता रश्मयो मयून्त्रा
एव रज्जवो येन सः प्रत्युजहारेव उद्धृतवानिव । तत इत्यन्धकारात् ॥
९०५ - पीतौष्ठ - रागाणि हृताऽञ्जनानि
भास्वन्ति लोलैर॑लकैर् मुखानि ॥
प्रातः कृताऽर्थानि यथा विरेजुस्
तथा न पूर्वेद्युर॑लंकृतानि ॥ २१ ॥
पीतौष्टरागाणीत्यादि - मुखानि वधूनामित्यर्थात् । यथा प्रातः प्रभाने
विरेजुः तथा पूर्वेयुः पूर्वस्मिन्नहाने अलंकृतानि न रेजुः । तेपामकृतार्थत्वात् ।
तानि पुनः कृतार्थानि कृतकार्याणि । यतो दयितैः पीतोष्टरागाणि ओष्टचुम्वनात् ।
हृताञ्जनानि चक्षुपोरपि चुम्बनात् अपगतकजलानि लोलैराकुलैरलकैः कचग्रहाक
र्षणात् । भास्वन्ति दीप्तिमन्ति ॥
 
९०६-प्रजागराऽऽताम्र-विलोचनाऽन्ता
निर॒ञ्जनाऽलक्तक-पत्र-लेखाः
 

 
तुल्या इवा ऽऽसन् परिखेद - तन्व्यो
वास- च्युताः सेवित मन्मथाभिः ॥ २२ ॥
प्रजागरेत्यादि — भर्तृभिः सहैकत्र यच्छयनं स वासः तस्माच्युताः काश्चित्
तन्व्यः सेवितमन्मथाभिः अनुष्ठितसुरताभिः तुल्या इवासन् । यतः प्रजागराताम्र-
विलोचनान्ताः दयितागमनप्रतीक्षणात् यः प्रजागरस्तेन ताम्रनेत्रपर्यन्ताः । नायात
इति गृहीतप्रसाधनतया निरञ्जनालक्तकपत्रलेखा: यदि वा अन्यत्र शयित इति
रोदनात् निरञ्जनाः चित्तोन्माथादितस्ततः पादविक्षेपात् विगतालक्तकाः शयने प्रति
क्षणमुद्वर्तनपरिवर्तनात्कपोलादिभ्यो निष्पत्रलेखा इति खेदाच्च तन्व्यः कृशाङ्ग्यः ॥
९०७ - आबद्ध - नेत्राऽञ्जन-पङ्क-लेशस्
 
ताम्वूल - रागं बहुलं दधानः ॥
चकार कान्तो sप्यधरो ऽङ्गनानां
 
सहौपितानां पतिभिर् लघुत्वम् ॥ २३ ॥
आबद्धेत्यादि—–—कासांचिदङ्गनानां पतिभिः सहोषितानामध्यधरः लघुत्वं
दौर्भाग्यं चकार, सूचितवानित्यर्थः । यतस्ता ईप्सितसुरताप्राहया रुदितास्ततश्च
बद्धो लग्नो नेत्राञ्जनपङ्कलेशो यस्य सोऽधरो दयितैरपीतत्वाच्च बहुलं ताम्बूलरागं
दधानः कान्तोऽपि लघुत्वं चकार ॥
 
९०८ - चक्षूंषि कान्तान्य॑पि सा॒ऽञ्जनानि
ताम्बूल रक्तं च स-रागमौष्ठम् ॥