2023-02-15 17:22:36 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'प्रभातवर्णनं' नाम एकादशः सर्गः-
दुःखेन लोकः परवानि॑िवा ऽगात्
समुत्सुकः स्वप्न-निकेतनेभ्यः ॥ १७ ॥
अवीतेत्यादि – अथानन्तरं लोकः परस्परेणान्योन्येन दयितो दयितया
दयितापि दयितेन अवीततृष्णः अनपगतसंभोगाभिलाषः अतएव क्षणादिव द्रुत-
मिवायातं निशावसानं यत्र । समुत्सुकः उत्कण्ठितः परवानिव पराधीन इव
स्वप्ननिकेतनेभ्यः वासगृहेभ्यो दुःखेन अगात् निर्गतवान् ॥
९०२ - अर्धोत्थिताऽऽलिङ्गित-सन्नि मनो
-
रुद्धः पुनर् यान् गमने ऽन॒भीप्सुः ॥
व्याजेन निर्याय पुनर् निवृत्तस्
त्यक्ताऽन्य कार्यः स्थित एवं कश्चित् ॥ १८ ॥
अर्धोत्थितेत्यादि – शयनात् अर्धमुत्थितं यस्येत्यर्धोत्थितः । आहिताझ्यादिषु
द्रष्टव्यः । शयनस्य वा अर्धादुत्थित इति योज्यम् । स चालिङ्गितो दयितया
सन्निमग्नः शयने सुप्तः । पुनर्यान्निर्गच्छन् रुद्ध विष्टतः । गमने अनभीप्सुरपि निर्याय
व्याजेन निमित्तेन पुनर्निवृत्तः । प्रविष्टस्त्यक्तान्यकार्यः स्थित एव कश्चित्कामी ॥
९०३ - तालेन संपादित साम्य-शोभं
-
२९७
शुभऽवधानं स्वरबद्ध-रागम् ॥
पदैर् गतता॒ऽर्थं नृप - मन्दिरेषु
-
प्रातर् जगुरू मङ्गल-वत् तरुण्यः ॥ १९ ॥
तालेनेत्यादि
– नृपमन्दिरेषु रावणादिराजवेश्मसु प्रभातकाले तरुण्यो मङ्ग-
लवत् मङ्गलोपेतं जगुः गायन्ति स्म । तालेन क्रियाकालमानेन संपादिता साम्य-
शोभा यत्र गायनक्रियायां, शुभावधानं शोभनमवधानं चित्तैकाग्रता यत्र, स्वर-
बद्धरागं षड्जादिभिः स्वरैर्बद्धो ग्रामरागो यत्र, पदैः सुप्तिङन्तैर्गतार्थं परिच्छि-
नार्थं, निरर्थकपदरहितमित्यर्थः । अनेन स्वरगतं पदगतं लयगतमवधानगत मिति
चतुर्विधं गीतमाख्यातम् ॥
९०४ - दुरुत्तरे पङ्क इवा अन्धकारे
मनं जगत् सन्तत - रश्मि-रज्जुः ॥
प्रनष्ट - मूर्ति-प्रविभागमुद्यन्
प्रत्युज्जहारेव ततो विवस्वान् ॥ २० ॥
दुरुत्तर इत्यादि – अन्धकारे पङ्क इव दुरुत्तरे दुःखेनोत्तीर्यत इति । म
प्रविष्टं जगत् । यतः प्रनष्टमूर्तिप्रविभाग प्रनष्टः स्थावरजङ्गममूर्तीनां प्रविभागो