2023-02-15 17:22:36 by ambuda-bot
This page has not been fully proofread.
९९६ भट्टि काव्ये - तृतीये प्रसन्न काण्डे लक्षण
रूपे द्वितीयो वर्गः,
८९८ - सामोन्मुखेना SSच्छुरिता प्रियेण
दत्ते ऽथ काचित् पुलकेन भेदे ॥
अन्त:-
:-प्रकोपाऽपगमाद् विलोला
वशीकृता केवल - विक्रमेण ॥ १४ ॥
M
सामोन्मुखेनेत्यादि – अथ काचित्कोपान्मानवती प्रियेण सामोन्मुखेन
सामपरेण प्रसादयता आच्छुरिताख्येन नवकर्मणा संस्पृष्टा सती पुलकेन रोमा-
जेन भेड़े उद्दमे दत्ते सति अथ अन्तःप्रकोपस्यापगमात् विलोला विलोलवुद्धिः
केवल विक्रमेण हठाग्रहणेनैव वशीकृता, उपभुक्तेत्यर्थः ॥
८९९ - गुरुर् दधाना परुष त्वम॑न्या
कान्ता ऽपि कान्ते॒न्दु करा॒ऽभिमृष्टा ॥
प्रह्लादिता चन्द्र-शिलैव तूर्ण
क्षोभात् स्रवत् स्वेदजला बभूव ॥ १५ ॥
गुरुरित्यादि — अन्यापि काचित् स्त्री कान्ता कमनीयरूपा गुरुः धीरा ।
'५०२ । वोतो गुणवचनात् ।४।१।४४।' इति वा ङीप् । न भवति । दुधाना
परुषत्वं नैष्ठुर्यम् । कान्तेन भर्त्रा इन्दुनेव कराभिमृष्टा सती प्रह्लादिता सुखिता ।
क्षोभात् चेतसो विकारात् तूर्ण स्रवत्स्वेदजला बभूव । चन्द्रशिलेव चन्द्रमणिरिव ।
सा गरीयसी कान्ता परुपत्वं काठिन्यं दधाना इन्दुना कराभिमृष्टा प्रह्लादिता
सुखितेव क्षोभात्स्वप्रकृतिविकारात् स्रवज्जला भवति ॥
९०० - शशाङ्क-नाथाऽपगमेन धूम्रां
मूर्च्छा - परीतामिव निर्-विवेकाम् ॥
ततः सखीव प्रथिताऽनुरागा
प्राबोधयत् द्यां मधुराऽरुणश्रीः ॥ १६ ॥
शशाङ्केत्यादि — ततोऽनन्तरं यथा काचित् स्त्री नाथस्य भर्तुरपगमेन
वियोगेन धूम्रा मलिना मूर्च्छापरीता निश्चेतना अतएव निर्विवेका विवेक्तुमशक्का
सती सख्या प्रकाशितस्त्रेहया प्रबोध्यते तद्वद् द्यामाकाशं शशाङ्कनाथस्थापगमेन
अस्तगमनेन धूत्रां धूसरतां गतां निर्विवेकां अविद्यमानविशेषां अरुणश्रीः आदि-
त्यलक्ष्मी रिति मधुराभिनवा प्रथितानुरागा प्राबोधयत्प्रकाशितवती ॥
९०१ - अ वीत तृष्णो ऽथ परस्परेण
-
क्षणार्दिवाऽऽयात-निशाऽवसानः ॥