This page has not been fully proofread.

तथा लक्ष्ये-रूपे कथानके 'प्रभातवर्णनं' नाम एकादशः सर्गः- २९५
 
किं तत् कथं वैत्युंपलब्ध-संज्ञा
विकल्पयन्तो ऽपि न संप्रतीयुः ॥ १० ॥
 
तम इत्यादि - कामुका अपि रतावस्थाया उत्तरकालं उपलब्धसंज्ञा विकल्प-
यन्ति । तमो नु किसन्धकारं, प्रसुतं नु किं प्रकर्येण सुप्तं, मरणं नु मरणावस्था
नु, सुखं नु, मूर्च्छा नु, मनोभवस्य वा मायेति किं तद्भवति । कथं वा केन प्रकारेण
दत्स्यात् । इत्येवं विकल्पयन्तोऽपि न संप्रतीयुः, न परमार्थ ज्ञातवन्त इत्यर्थः ॥
८९५ - वक्षः स्तनाभ्यां, मुखमाननेन,
गात्राणि गात्रैर् घटयन्न मन्दम् ॥
स्मरा॒ऽतुरो नैव तुतोष लोकः,
 
पर्याप्तता प्रेम्णि कुतो विरुद्धा. ॥ ११ ॥
 
वक्ष इत्यादि — क्षोमुखगात्राणि स्वानि स्तनादिभिः स्त्रीसंबन्धिभिर्घटयन्
संश्लेषयन् अमन्दं दृढम्। '१३४ । ङमो ह्रस्वादचि ङमुट् । ८।३।३२॥ स्मरातुरो
लोको नैव नुतोष तुष्टिं न जगाम । यतः पर्याप्तता प्रेम्णि कुतो विरुवा । नैव,
तस्याविरुद्धत्वात् ॥
 
८९६ - स्रस्ता॑ता॒ऽङ्ग-यष्टिः परिरभ्यमाणा
संदृश्यमानऽप्यु॑पसंहृताऽक्षी ॥
अनूडमाना शयने नवोढा
परोपकारैक रसैव तस्थौ ॥ १२ ॥
 
स्रस्ताङ्गय टिरित्यादि - काचिन्नवोढा परिरभ्यमाणा पत्या आलिङ्ग्यमाना
स्रस्ताङ्गयष्टिः न प्रतीपमालिङ्गति । संदृश्यमानापि मुखमुन्नमय्य उपसंहृताक्षी
निमीलितलोचना न प्रतीपं पश्यति मानं नैवाचरतीति । अनूढमानापि असंह-
तमानापि एवंविधापि सती परोपकारैकरसैव तस्थौ । भर्तुरुपकारैकाभिप्रायैव
अवस्थिता नात्मोपकाराय ॥
 
८९७ - आलिङ्गिताया: सहसा त्रपा-वांस्
त्रासाऽभिलाषाऽनुगतो रताऽऽदौ ॥
विश्वासिताया रमणेन वध्वा
विमर्द-रम्यो मदनो बभूव ॥ १३ ॥
 
आलिङ्गिताया इत्यादि - कस्याश्चिद्वध्वा रतात्प्राक् रमणेन सहसा तत्क्षणं
आलिङ्गितायास्त्रपावान्मदनो बभूव । रतादौ रतारम्भे त्रासाभिलाषाभ्यामनुगतो
बभूव । विश्वासितायाः शनैर्विश्वासं कारितायाः विमर्दरम्यो बभूव त्रासाभावात् ॥