This page has been fully proofread once and needs a second look.

देवं नंदनंदनं वंदे । ओं नमः सिद्धम् ॥
 
अथ
 
श्रीभट्टि-काव्यं
 
जयमङ्गलया समेतम्--
 
प्रथमः सर्गः--
 
प्रणिपत्य सकलवेदिनमतिदुस्तरभट्टिकाव्यसलिलनिधेः ॥
जयमङ्गलेति नाम्ना नौकेव विरच्यते टीका ॥ १ ॥
 
लक्ष्यं लक्षणं चोभयमेकत्र विदुषः प्रदर्शयितुं श्रीस्वामिसूनुः कविर्भट्टिनामा
रामकथाश्रयमहाकाव्यं चकार । तथाह्यस्योपनिबन्धनं कविना द्विधा कृतम् ।
एकं लक्षणसूचकैः प्रकीर्णा-धिकार-प्रसन्न-तिङन्तकाण्डैश्चतुर्भि: । द्वितीयं लक्ष्य-
सूचकै रामसंभवादिभिर्द्वाविंशत्या सर्गैः । तत्र लक्षणं द्विविधम् । शब्दलक्षणं
काव्यलक्षणं च । तत्र प्रथमस्य प्रकीर्णाधिकारतिङन्तकाण्डानि । द्वितीयस्य
प्रसन्नकाण्डम् । यत्रोच्चावचेन बहूनां लक्षणानां प्रकरणं तत्प्रकीर्णकाण्डम् ।
तदेवात्र प्रथममुक्तं तस्य व्यापित्वात् 'उत्तरत्रापि द्रष्टव्यम्' इति प्रदर्शनार्थम् ।
अत्र यद्यप्यादौ कविना देवतानमस्कारो न कृतस्तथापीष्टदेवतासंकीर्तनमपि
विघ्नोपशमनहेतुर्भवतीति मन्यमान आह--
 
 
१--अभून् नृपो विबुध-सखः[^१] परं-तपः
श्रुता॒ऽन्वितो द[^३]श-रथ इत्यु॑दाहृतः, ॥
गुणैर् वरं भुवन-हितच्[^४]-छलेन यं
सना-तनः पितरमु॑पागमत् स्वयम्[^५]. ॥
 
---
 
१--'अभून्नृपो दशरथ इत्युदाहृतः श्रुतान्वितो विबुधसखः परन्तपः ॥' इति
पाठव्यत्यासोऽपि क्वचित् । २--'७७७ । अथ मित्रं सखा सुहृत् ।' इति नामलि-
ङ्गानुशासनेऽमरसिंहः । ३--दशसु दिक्षु रथो रथ-गतिर्यस्येति यथार्थनामेति भावः ।
४--'२४६ । छे च ।६।२।७३।<fix>'</fix> ह्रस्वस्य छे परे तुगागम: स्यात्संहितायाम् | यथा-सदा-
शिव+छात्रः=सदाशिवच्छात्रः । इति सिद्धान्तकौमुद्यां भट्टदीक्षितः । ५--पद्येऽस्मिन्वृत्तं
रुचिरा । तल्लक्षणम्-‘चतुर् (४)-ग्रहै (९)रिह रुचिरा ज-भ-सू-ज-गाः ।' इति वृत्तरत्नाकरे
भट्टकेदारः ।