This page has not been fully proofread.

२९४ भट्टि- काव्ये तृतीये प्रसन्न काण्डे लक्षण-रूपे द्वितीयो वर्गः,
 
वृत्तावित्यादि- सुरतकाले श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानां इन्द्रियाणां शब्द-
स्पर्शरूपरसगन्धग्रहणात् सर्वेन्द्रियसंभवं सुखम् । अथवा सर्वसिन्द्रियं यत्रेति
सर्वेन्द्रियः कायः । तत्संभवं सुखं सर्वेन्द्रियसंभवं सुखं तथाह्यालिङ्गनचुम्बन-
दशनच्छेदनेषु पुल्पोपसृष्टेषु तत्र प्रयुज्यमाने काये सुखमुत्पद्यते । तेन सुखेन
हृदये चेतसि प्रकाशं स्पष्टं वृत्तौ कृतायां चक्षुर्वञ्चितमिवात्मानं मन्यमानम् ।
८ २९९३ । आत्ममाने खश्च । ३।२।८३ ।' इति णिनिः । संकोचमेव निमीलनमेवा
स्थात् अनुष्ठितवत् असहमानमिति सर्वेन्द्रियसंभवस्य सुखस्य हृदये वृत्तिं सोडु-
मपारयदित्यर्थः । अशक्तवत् यथा कश्चिदसमर्थोऽन्यसंभवां संपदं सोढुमसहमानः
संकोचमनुतिष्ठति ॥
 
८९२ - पीने भ्रटस्यौरसि वीक्ष्य भुग्नांस्
तनु- त्वचः पाणि-रुहान् सु-मध्या ॥
इच्छा-
विभङ्गाऽऽकुल-मानसत्वाद्
भर्त्रे नखेभ्यश् च चिरं जुजूरे ॥ ८ ॥
 
M
 
पीन इत्यादि — काचित् सुमध्या सुमध्यमा नखैः व्यापद्यमाना अहमप्यस्य
क्षतं विधास्यामीति भटस्योरसि पीने कठिने भुनान् कुञ्चितान् । भग्नानिति पाठा-
न्तरम् । पाणिरुहान्नखान् वीक्ष्य भर्त्रे नखेभ्यश्च चिरं जुजूरे क्रुध्यति स्म । कथ-
मस्य वक्षः कटिनं मम च नखाम्तनुत्वचो न कठिना इति । '१२३० । घूरी ॥१२३१॥
जूरी हिंसावयोहान्योः' इत्यस्यात्मनेपदनो रूपम् । ८५७५ । क्रुध-द्रुह-।१।४।३७।
इत्यादिना सम्प्रदानसंज्ञा । कस्माजुजूर इत्याह - इच्छाविभङ्गाकुलमानसत्वात्
चिकीर्षिताकरणेनाकुलचित्तत्वात् ॥
 
८९३ - स्रस्तता॒ऽङ्ग - चेष्टो विनिमीलिताऽक्षः
स्वेदाऽम्वु-रोमोद्गम-गम्य-जीवः ॥
अ-शेष नष्ट - प्रतिभा पटुत्वो
गाढोपगूढो दयितैर् जनो ऽभूत् ॥ ९ ॥
 
स्रस्ताङ्ग चेष्ट इत्यादि – दयितैर्गाढोपगूढः गाढालिङ्गितः सन् स्त्रीजन: अशे-
पनष्टप्रतिभापटुत्वोऽभूत् । अशेपं नष्टं प्रतिभाया बुद्धेः पटुत्वं यस्येति । एवं च
कृत्वा स्रस्ताङ्गचेष्टोऽपगतकायव्यापारः विनिमीलिताक्षः सुखानुभवान्निमीलित-
लोचनः । मृतस्तर्हीत्यत आह - खेदाम्बुरोमोद्गमगम्यजीवः स्वेदाम्वुरोमोद्गमाभ्यां
लिङ्गाभ्यां गम्यमानसंज्ञः ॥
 
८९४ - तमः, प्रसुप्तं मरणं, सुखं नु,
मूर्च्छा नु, माया नु मनोभवस्य ॥
 
"