2023-02-15 17:22:35 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'प्रभातवर्णनं' नाम एकादशः सर्गः- २९३
८८८ मानेन तल्पेष्वं यथा-मुखीना
मिथ्या-प्रसुखैर् गमित-त्रियामाः ॥
स्त्रीभिर् निशाऽतिक्रम-विह्वलाभिर्
दृष्टे ऽपि दोपे पतयो ऽनुनीताः ॥ ४ ॥
मानेनेत्यादि - पतयस्तल्पेषु शयनीयेषु मानेनायथामुखीनाः परावृत्त मुखाः ।
'१८०७॥ यथामुखसंमुखस्य दर्शनः खः ।५॥२॥
परावृत्तत्वात् प्रतिविम्वाश्रय-
वत्तेपु योषितां प्रतिविम्वमिव मनो न प्रसादीभवतीत्येवं मिथ्याप्रसुतैरलीकनि-
नाभिः गमितत्रियामाः प्रेरितप्रथमादिमहराः । दृष्टेऽपि दोषे गोत्रस्खलितादौ ।
पतयः स्त्रीभिरनुनीता यतो निशातिकसात्पर्यवसानात् विकृवा विह्वलास्ताः ॥
८८९ - ईर्ष्या विरुग्णाः स्थिर
वद्ध-मूला
निरस्त - निःशेष - शुभ-प्रतानाः ॥
आप्यायिता नेत्र-जल-प्रसेकै:
प्रेम-द्रुमाः संरुरुहुः प्रियाणाम् ॥ ५ ॥
ईर्ष्याविरुग्णा इत्यादि - प्रियाणां प्रेमद्रुमाः प्रेमाणि दुमा इव । स्थिरं
निश्चलं बद्धमूलं उत्पत्तिकारणं येषां ते ईर्ष्याविरुग्णा अत एव निरस्ताः निःशेषाः
शुभा एव हसितजल्पितादयः प्रतानाः शाखा येषां ते । प्रसादनानन्तरं नेत्रजल-
प्रसेकैराप्यायिताः संरुरुहुः पुनर्नवीभूताः स्थिरबद्धमूलत्वात् ॥
८९० - ततः समाशङ्कित-विप्रयोगः
पुनर्- नवीभूत रसो ऽवितृष्णः ॥
स्मरस्य सन्तं पुनरुक्त-भावं
ना SSवर्तमानस्य विवेद लोकः ॥ ६ ॥
M
तत इत्यादि - प्रेमद्रुमरोहणानन्तरं लोकः समाशङ्कितविप्रयोगो विप्रयोगो-
ऽस्माकमासन्नवर्तीति पुनर्नवीभूतरसः अभिनवीभूतसुरतेच्छः स्मरस्य कामस्य आव
र्तमानस्य पुनः पुनः प्रवर्तनात् । अवितृष्णः साभिलाषः सन्तमपि विद्यमानमपि
पुनरुक्तभावं पौनःपुन्यं न विवेद । आशङ्कितविप्रयोगत्वादपूर्वमिव ज्ञातवानित्यर्थः ॥
८९१ - वृत्तौ प्रकाशं हृदये कृतायां
सुखेन सर्वेन्द्रिय - संभवेन ॥
संकोच मे॑वा ऽसहमानम॑स्था-
दे-शक्त-वद् वञ्चित मानि चक्षुः ॥ ७ ॥