This page has not been fully proofread.

२९२ भट्टि - काव्ये - तृतीचे प्रसन्न काण्डे लक्षण-रूपे द्वितीयो वर्गः,
 
एकादशः सर्गः-
-
 
माधुर्यमपि काव्यस्य गुण उक्तः । तथा चोक्तम्- 'श्राव्यं नातिसमस्तार्थं काव्ये
मधुरमिष्यते' इति । तत्प्रदर्शनार्थं लङ्कागतप्रभातवर्णनमधिकृत्याह-
८८५ - अथा ऽस्तमा॑सेदुषि मन्द-कान्तौ
पुण्य-क्षयेणेव निधौं कलानाम् ॥
समाललम्बे रिपु मित्र - कल्पैः
पझैः प्रहासः कुमुदैर् विषादः ॥ १ ॥
 
अथेत्यादि – अथानन्तरं कलानां निधौ चन्द्रनसि अस्तं पर्वतमासेडुपि गत-
वति । यथा कस्मिंश्चित् पुण्यक्षयेणावसानमासेदुपि । '३०९७१ भाषायां सद-वस
-।३।२।१०८।' इति लिट: वसुरादेशः । मन्दकान्तावित्यस्तगमने पूर्वलिङ्ग दर्श-
यति । रिपुकल्पैः पद्मैः प्रहासः विकासः, मित्रकल्पैः कुमुदैर्विषादः संकोच : समा-
ललम्बे समालम्वितः ॥
 
८८६-दूरं समारुह्य दिवः पतन्तं
 
भृगोरिवेन्दुं विहितो॒पकारम् ॥
बद्धा ऽनुरागो ऽनुपपात तूर्ण
 
तारा -गणः संभृत - शुभ्र-कीर्तिः ॥ २ ॥
दूरमित्यादि - दूरं दिव आकाशस्य भागं समारुह्य पश्चात्तत एवाकाशात्
भृगोरिव प्रपातादिव पतन्तमिन्दुं तारापतिमनु पश्चात् तारागणः विहितोपकारं
तदुदयेन तारागणाप्यायनात् बद्धानुरागः अस्तगमनकाले अनुगतरक्तभावः संभृता
विपुलीकृता शुआ निर्मला कीर्तिर्येन स तारागण: पपात । यथा कस्मिंश्चित्स्वा
मिनि भृगोः पतति पश्चात्स्वामिभक्त्या भृत्यलोको बद्धानुरागः संभृतशुभ्रकीर्तिः
पतति तद्वदिति ॥
 
८८७ - क ते कटाक्षाः क विलासवन्ति
 
प्रोक्तानि वा तानि मर्मेति मत्वा ॥
लङ्कऽङ्गनानाम॑ववोध-काले
तुलाम॑नारुह्य गतो ऽस्तमि॑न्दुः ॥ ३ ॥
 
M
 
क्छ त इत्यादि — ये कटाक्षाः सविलासास्तिर्यग्दृष्टयः, यानि च प्रोक्कानि
जल्पितानि विलासवन्ति, तदुभयं क्व मम विद्यते । लङ्काङ्गनानां तु मुखेन्दवः
सकटाक्षा: सविलासा: सजल्पिताश्च । अतो यावन्न विबुध्यन्ते तावदपक्रमणं युक्त
मिति मत्वा निरूप्य तुलामनारुह्य समानतामलब्ध्वा निःसंशयो वा भूत्वा ।
तप्रबोधकाले । लङ्काङ्कनानामेव । गतोऽस्तमिन्दुः ॥