This page has not been fully proofread.

२८८
 
भट्टिकाव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे प्रथमो वर्गः,
 
-
 
अपहरदित्यादि-- ततस्तूत्तरकालं दिवसे ये विनोदाः चेतसः संस्थापका
तान् सर्वतः सर्वान् सर्वेण वा प्रकारेण । आद्यादित्वात्तसिः । अपहरदिव अपनयदि-
वान्धकारं दथितगतं प्रियागतं च । समाधिं चित्तैकाग्रतां एकधा एकप्रकारं दधत्
धारयत् । घनरुचि बहुलच्छायं ववृधे वर्धते स्म । सह रघुनन्दनमन्मथोदयेन तदानीं
तस्य कामोद्योऽपि ववृधे । सहोक्तिरिति अन्धकारवन्मन्मथाश्रितयोर्वर्धन क्रिय-
योस्तुल्यकालयोः ववृध इत्यनेन पदेन कथनात् । तथा चोक्तम्- 'तुल्यकालक्रिये
यत्र वस्तुद्वयसमाश्रिते ॥ वाक्येनैकेन कथ्येते सहोक्तिः सा मता यथा ॥' इति ॥
परिवृत्तिः -
 
८७६-अधि-जलधि तमः क्षिपन् हिमांशुः
परिददृशे ऽथ दृशां कृताऽवकाशः ॥
विदधर्दिव जगत् पुनः प्रलीनम्.
भवति महान् हि परार्थ एव सर्वः ॥ ६७ ॥
 
-
 
अधिजलधीत्यादि – अथ हिमांशुरन्धकारवर्धनानन्तरम् । अविजलधि
जलधेरुपरि । विभक्तयर्थेऽव्ययीभावः । तमः क्षिपन् अपनयन् । परिददृशे दृष्टः ।
दृशां चक्षुषां कृतावकाशः दत्तावसरः । जगलोकं मलीनं तिरोभूतं पुनर्विदधदिव
सृजन्निव । कस्मात्तेनैवं कृतमित्याह - यस्माद्यो महान् स सर्वः परार्थ एवं पर
प्रयोजन एक भवति । परिवृत्तिरिति दृशां कृतावकाश इत्यनेन विशिष्टस्य
वस्तुन आदानात् । तमः क्षिपन्नित्यनेनास्य वस्तुनः अपोहात्, भवतीत्यादिना
अर्थान्तरन्यासात् । तथा चोक्तम्- 'विशिष्टस्य यदादानमन्यापोहेन वस्तुनः ॥
अर्थान्तरन्यासवती परिवृत्तिरसौ यथा ॥ इति ॥
 
स-सन्देह:-
८७७ - अशनिर॑यम॑सौ, कुतो निरभ्रे.
 
शित-शर वर्षर्म - सत् तदव्य-शार्ङ्गम् ॥
इति मदन-वशो मुहुः शशाङ्के
 
रघु-तनयो, न च निश्चिकाय चन्द्रम् ॥ ६८ ॥
अशनिरित्यादि — असौ यश्चन्द्रः किमयमशनिर्वत्रं, असौ कुतो निरभ्रे नभसि
कुतः, यतोऽसौ मेघादुत्पद्यत इति । उत निशितानां शराणां वर्षं तदप्यशार्ङ्गम-
विद्यमानधनुः असदविद्यमानमित्ययं मदनवशः कामाभिभूतो मुहुः क्षणं शशाङ्के
शशाङ्कविषये रघुतनयोऽभूदित्यर्थात् द्रष्टव्यम् । न च चन्द्रं निश्चिकाय निश्चि
नोति स्म । '२५२५ । विभाषा चेः ।७।३।५८ ।' इति कुत्वम् । ससन्देह
इति । अशनिशरवर्षाभ्यां उपमेयस्य चन्द्रस्य तत्वं अशनिशरवर्षमिति प्रयो-
कुरभिधानात् । कुतो निरञे तद्प्यशार्ङ्गमिति पुनरुपमानोपमेययोर्भेदाभि-