This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'सीताभिज्ञानदर्शनं' नाम दशमः सर्गः – २८७
 
समुद्रोपकण्टे रामस्य मदनावस्थामाह-
-
 
विरोधः-
८७३– मृदुभिर॑पि विभेद पुष्प- बाणैश्
चलशिशिरैरपि मास्तैर् ददाह ॥
रघु-तनयमनर्थ - पण्डितो ऽसौ,
 
न च मदनः क्षतमततान, ना ऽर्चिः ॥ ६४ ॥
मृदुभिरित्यादि – मदनोऽनथेपण्डितः निष्प्रयोजनकुशलः पुष्पबाणैरपि स्मृ-
दुभिः रघुतनयं विभेद । न चासौ क्षतं खण्डनमाततान जनितवान् । जलशि-
शिरैर्मारुतैस्तमेव रघुतनयं ददाह न चासावर्चिवलामाततान । विरोध इन
पुष्पबाणानां यन्मार्दवं मरुतां च जलसंसर्गाद्यच्छँयं तयोर्भेद्दाहलक्षणे क्रिये
विरुद्धे तयोरभिधानात् । तयोश्च क्रिययोर्वा विरोधिनी क्रिया क्षतार्चिषोरवतान-
लक्षणा तस्याः कामोद्रेकप्रतिपादनाभिधानात् । तथा चोक्तम्-'गुणस्य च क्रियाया
त्रा विरुद्धान्यक्रियाभिधा । या विशेषाभिधानाय विरोधं तं विदुर्यथा ॥' इति ॥
उपमेयोपमा -
 
-
 
-
 
८७४ - अथ मृदु-मलिन
प्रभौ दिनाऽन्ते
जलधि- समीप-गताव॑तीत-लोकौ ॥
अनुकृतिर्मितरेतरस्य मूर्त्योर्
दिन-कर-राघव - नन्दनावकाम् ॥ ६५ ॥
 
अथेत्यादि – अथ यथोक्तवस्त्वनन्तरं मृदुमलिनप्रभौ मृदुरप्रचण्डा मलिना
प्रभा ययोः तौ दिनकरराघवनन्दनौ । रघोरपत्यं राघवः दशरथस्तन्नन्दनो रामः
दिनान्ते अन्योन्यस्य दिवाकरो रामस्य रामो ऽपि दिवाकरस्येति मूर्योर्देहयोरनु -
कृतिमिवानुकारमिव यथोक्तधर्मतुल्यतया अकार्ष्टा कृतवन्तौ । अतीतलोकौ त्यक्त-
लोकौ । उपमेयोपमेति । तयोः पर्यायेण उपमानोपमेयत्वात् । तथा चोकम्-
'उपमानोपमेयत्वं यत्र पर्यायतो भवेत् ॥ उपमेयोपमां धीरा ब्रुवते तां यथो-
द्विताम् ॥ इति ॥
 
सहोक्ति:- -
 
८७५ - अपहरदिव सर्वतो विनोदान्
दयित-गतं दधदेकधा समाधिम् ॥
घन - रुचि ववृधे ततो ऽन्धकारं
 
सह- रघु - नन्दन-मन्मथो॒दयेन ॥ ६६ ॥