This page has not been fully proofread.

२८६ भट्टिकाव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे प्रथमो वर्गः,
 
मिव जलनिवहम् । रामं भर्तारं विलोक्य हृष्टाय इत्यर्थप्राप्तम् । ततश्च पूर्वकाले
क्त्वा । भुवः पृथिव्या इव धरणिधरस्तनयोः शुकचीनपट्टमिव गलितम् । उप-
मारूपकमिति । तथोक्तम्- 'उपमानस्य तद्भावमुपमेयस्य रूपयन् ॥ यो वढत्यु-
पमाभेदमुपमारूपकं यथा ॥' इति ।
 
तुल्ययोगिता ---
 
८७१-अ-परिमित-महाऽद्भुतैर् विचित्रश्
 
च्युत- मलिनः शुचिभिर् महान-लङ्घयैः ॥
तरु-मृग- पति-लक्ष्मण-
क्षितीन्द्रैः
समधिगतो जलधिः परं भासे ॥ ६२ ॥
 
अपरिमितमहाद्भुतैरित्यादि- तस्मृगपतिलक्ष्मणक्षितीन्द्रैः सुग्रीवलक्ष्म-
णरामैः समधिगतः प्राप्तो जलधिः परं सुष्टु वभासे शोभते स्म । कीदृशैः कीदृश
इत्याह-अपरिमितमहाद्भुतैर्विचित्रः नानाद्भुतः । शुचिभिर्विमलैः च्युतमलिनो
निर्मलोडलड्ड्यैरनभिभवनीयैः महान् अनभिभवनीयः । एवं च कृत्वा तेनापि
ते समधिगताः परं बभासिर इति । तुल्ययोगितेति न्यूनानामपि तेषां सुप्री-
वादीनां विशिष्टेन जलनिधिना महाद्भुतत्वादिगुणसाम्यविवक्षया तुल्यस्य कार्यस्य
भासनलक्षणस्यानुष्ठानेन तुल्ययोगात् । तथा चोक्तम्-'न्यूनस्यापि विशिष्टेन
गुणसाम्य विवक्षया ॥ तुल्यकार्यक्रियायोगादित्युक्ता तुल्ययोगिता ॥' इति ॥
 
निदर्शनम् -
 
८७२ - न भवति महिमा विना विपत्ते-
स्वगमयन्निव पश्यतः पयोधिः ॥
अ- विरतमभवत् क्षणे क्षणे ऽसौ
 
शिखरि- पृथु - प्रथित-प्रशान्त - वीचिः ॥ ६३ ॥
 
न भवतीत्यादि - महिमा महत्वं विना विपत्तेः विनाशं विना न भवति
'६०३ । पृथग्विना ।२।३।३२।' इत्यादिना पञ्चमी । नास्त्येव तन्महत्वं यस्य
विनाशो नास्तीत्येवमवगमयन् बोधयन्निव पयोधिस्तान् पश्यतो रामादीन् अवि-
रतमविच्छेदेन शिखरिवत् पृथवः प्रथिताः प्रशान्ताश्च वीचयो यस्य स एवं क्षणे
क्षणे अभवत् भूतवान् । निदर्शनेति प्रतिक्षणं वीचीनां पृथुत्वप्रशान्तत्वभवन-
क्रिययैव महिमभवनस्य तदर्थस्य विपत्तिफलस्य उपादानात् । न यथेववतिश-
ब्दानां प्रयोगात् । तथा चोक्तम्- 'क्रिययैव तदर्थस्य विशिष्टस्योपदर्शनात् ॥ इष्टा
निदर्शना नाम यथेववतिभिर्विना ॥' इति ॥
 
तरुमृगाः शाखामृगाः कपयस्तेषां पतिरिति विग्रहः ।