This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'सीताभिज्ञानदर्शन' नाम दशमः सर्गः – २८५
 
मथितम॑पि सुरैर् दिवं जलौघैः
समभिभवन्तर्म-विक्षत
 
प्रभावम् ॥ ५९ ॥
 
शशिरहितमित्यादि-शशिरहितमपि
 
मुग्धचन्द्ररहितमपि प्रभूतकान्ति
 
पद्मरागादिरलावभासितत्वात् । विबुधहृतश्रियमपि अनष्टशोभं सर्वदा शोभास्प-
दत्वात् । सुरमैथितमपि दिवमाकाशं जलौघैः समभिभवन्तं अत्युच्छ्रितत्वात्
तदेवमविक्षतप्रभावं अखण्डिताभिमानमीयुः ज्ञातवयः । विशेषोक्ते रिति शश्या-
देरेक देशस्य विगमे ऽपि प्रसूतकान्त्या गुणान्तरेण स्तुतिविशेषस्य प्रतिपादनात् ।
यथोक्तम् – 'एक देशस्य विगमे या गुणान्तरसंस्तुतिः ॥ विशेषप्रथनायासौ विशे-
पोक्तिर्मता यथा ॥' इति ॥
 
व्याज-स्तुतिः-
८६९ - क्षिति- कुल- गिरि- शेष-दिग्-गजेन्द्रान्
सलिल - गतामि॑िव नावमु॒द्वन्तम् ॥
धृत - विधुर धरं महा वराह
गिरि-गुरु-पोत्रम॑पहितैर् जयन्तम् ॥ ६० ॥
 
-
 
क्षितीत्यादि–क्षितिं पृथिवीं, कुलगिरीन् कुलपर्वतान्, शेवं नागराजं,
दिग्गजेन्द्रानैरावतादीन् । सलिलगतामिव नावमुद्दहन्तं जलनिधिं महावराहं
घृतविरघरं घृता उद्धृता विधुरा विह्वला धरा मही येनेति । गिरिगुरुपोत्रं गिरि-
वत् गुरु पोनं यस्य तमपीहितैश्चेष्टितैर्जयन्तं जलनिधिमीयुः । व्याजस्तुतिरिति
क्षित्यादिधारणादधिकगुणस्य जलनिधेस्तोत्रव्यपदेशेन वराहेण तुल्यत्वात् । तम-
पि महावराहं जयन्तमिति किंचिद्विधातुमिच्छया निन्दनात् । तथा चोक्तम्-
'दूराधिकगुणस्तोत्रव्यपदेशेन तुल्यता ॥ किंचिद्विधित्सया निन्दा व्याजस्तुतिरसौ
यथा ॥' इति ॥
 
उपमा-रूपकम्-
८७० - गिरि-परिगत-चञ्चलाऽऽपऽन्तं
जल-निवहं दध॑तं मनो॒ऽभिरामम् ॥
गलितमिव भुवो विलोक्य रामं
धरणि-धर-स्तन- शुक्ल-चीन-पट्टम् ॥ ६१ ॥
 
-
 
गिरीत्यादि - गिरिभिः परिगताः संसृष्टाः चञ्चला विलोला आपगान्ता
नद्यन्ता यस्मिन् जलनिवहे, तं जलनिवहं दूधतं धारयन्तं समुद्रमीयुः । कीदृश-