2023-02-15 17:22:35 by ambuda-bot
This page has not been fully proofread.
२८४ भट्टि काव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे प्रथमो वर्गः,
-
प्रदहशुरित्यादि- -महातरङ्गान् जलमुच इव मेघानिव प्रददृशुः मदृष्टवत्यः ।
उरवो महान्तो मुक्ताः प्रकीर्णाः शीकरौधा येषु । विमलमणिधुतय एव सन्तता नि
इन्द्रचापानियेपु । धीरमन्द्रोपान् मधुरगम्भीरध्वनीन् । क्षितिपरितापहृतः
पृथिवीसंतापहारिणः । इदमपि यथानिर्दिष्टविशेषणात् लिष्टं जलमुच इवेत्युप-
माननिर्देशात् ॥
कुलकम् ५६-६०-
हेतु- श्लिष्टम् -
८६६ - विद्रुम-मणि-कृत-भूषा
मुक्ता-फल- निकर - रञ्जिताऽऽत्मानः ॥
वभुरुंदक- नाग- भग्ना
वेला-तट-शिखरिणो यत्र, ॥ ५७ ॥
विद्रुमेत्यादि – वेलातट शिखरिणो यत्रेति जलनिधौ वभ्रुः शोभन्ते स्म ।
ते तमीयुरिति वक्ष्यमाणेन संवन्धः । वेलातटाः शिखरिणश्चेति द्वन्द्वः । शेषाणि
विशेषणान्युभयत्र तुल्यानि । इदमपि यथानिर्दिष्टमेव । किंतु हेतुलिएं हेतुद्वारेण
विशेषणानां निर्देशात् । विद्रुममणिकृतभूपात्वात् जलहस्तिभन्नत्वाच्च वभुरिति ॥
अपह्नुतिः -
८६७ - भृत- निखिल-रसा- तलः स - रत्नः
शिखरि-समोर्मि-तिरोहिताऽन्तरीक्षः ॥
कुत इह परमाऽर्थतो जलौघो
जल-निधिमयुर॑तः समेत्य मायाम् ॥ ५८ ॥
भृतनिखिलरसातल इत्यादि – एवंगुणविशिष्टो जलौघः कुत इह प्रदेशे
परमार्थतः परमार्थेन विद्यते । किं तर्हि माया । यतः पूरिताशेपपातालत्वात् सरत्न-
त्वात् । शिखरिसमैरूर्मिभिः पिहितान्तरिक्षत्वाञ्च । सराघवाः लवङ्गसेनाः समेत्य
मायामिव जलनिधिमीयुः ज्ञातवत्यः । सर्वे गत्यर्था ज्ञानार्था इति । '९६४ । भृञ्
भरणे' इति भौवादिकः । अपह्नुतिरिति मायामित्यन्तर्गतोपमारूपतया निर्देशात् ।
विद्यमानांर्थस्य चापह्नवात् । तथा चोक्तम् – 'अपह्नुतिरितीष्टात्र किंचिदन्तर्गतो-
पमा ॥ भूतार्थापहवादेषा क्रियतेऽस्याभिदा यथा ॥' इति ।
विशेषोक्तिः-
८६८ - शशि रहितम॑पि प्रभूत- कान्ति
विबुध-हृत - श्रियम॑प्य - नष्ट-शोभम् ॥