This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'सीताभिज्ञानदर्शनं' नाम दशमः सर्गः --- २८३
 
श्लिष्टम् -
 
८६४ - भुवन-भर-सहान-लय-धौम्नः
पुरु- रुचि रत्न-भृतो गुरुरु- देहान् ॥
श्रम-विधुर - विलीन - कूर्म-नक्रान्
दधतमुढूंढ- भुवो गिरीनंहींश च ॥ ५५ ॥
 
भुवनभरसहानित्यादि - गिरीन् भुवनभरसहान् अहींश्च तादृशानेव
दधतं जलनिधिमगमन् । गिरीलङ्घयधाम्नः अहीं श्वानभिभवनीयतेजसः । गिरीन्
पुरुरुचिरत्नभृतः अहींश्च महारुचिरत्नभृतः । गिरीन् गुरुदेहान् अहींश्च महाका-
यान् । श्रमविधुराः श्रमपीडिताः विलीना: कूर्मा नक्राश्च येपु तान् गिरीनहींश्चो-
ढूढभुवो धृतवसुधान् । गिरीनहीं । १४०॥ न च्छव्यप्रशान् ।७।३।७।' इति
रुत्वं पूर्वस्यानुनासिकः । श्लिष्टमिति । उपमानेनोपमेयत्वस्य साधनात् ।
तथा चोक्तं विशेषणेन लिटम् -'उपमानेन यत्तत्वमुपमेयस्य साध्यते ॥ क्रिया-
गुणाभ्यां नाम्ना च श्लिष्टं तदभिधीयते ॥ इति । अनोपमानभूतैरहिभिरुपमेय-
भूतानां गिरीणां तत्त्वस्य ताप्यस्य भुवनभरादिताद्रूप्यक्रियया तद्गुणेन च साध-
नेन गिरिभिरहिभिश्च नाम्ना च शब्देन भुवनभरसहानित्यादिना साध्यमान-
त्वात् । रूपकमपीदृशमेव । किंतु श्लिष्टस्य भेदेनोपमेययोर्युगपत्प्रयोगात् । रूपके
पुनरेकस्यैवोपमेयपुरुषस्य व्याघ्र उपमानम् । तथा चोक्तम् – 'लक्षणं रूपकेऽपीदं
विद्यते काममन्त्र तु ॥ दृष्टः प्रयोगो युगपदुपमानोपमेययोः ॥' इति । तदुक्तम् ।
लक्षणं लिष्टं सहोक्त्युपमाहेतुनिर्देशाश्रिविधम् । यथोक्तम् – 'श्लेषादेवार्थवच-
सोर्यस्य च क्रियते भिदा ॥ तत्सहोत्त्युपमाहेतुनिर्देशान्त्रिविधं यथा ॥' इति ।
तत्रेदं सहोक्तिलिष्टमुक्तं गिरी नहींश्चेति सहोत्या निर्देशात् ॥
 
-
 
श्लिष्टमेव -
 
८६५ - प्रददृशुरुरु-मुक्त-शीकरौघान्
विमल-मणि-द्युति-संभृते॒न्द्र-चापान् ॥
जल-मुच इव धीर-मन्द्र - घोषान्
क्षिति- परिताप-हतो महा-तरङ्गान् ॥ ५६ ॥
 
१ - '१३३१। गृह-देह-त्विट्-प्रभावा धामानि' इति नानार्थात् गिरिपक्षे अलट्र्यानि
धामानि देहा येषामित्यर्थः । अहिपक्षे च धामानि तेजांसीति । २ - गुरुवः जडा: उरवः
विशालाश्च देहा येषामिति विग्रहः । ३ - अत्र गिरिपक्षे अर्थष्टीकायां स्फुट एब । अहिपक्षे
तु श्रमेण भयादितस्ततः पलायनप्रयत्लेन विधुराः श्रान्ताः सन्तो विलीना: विशेषेण लयं नाशं
प्रायः कूर्मादयो येष्वित्यर्थः ।