This page has not been fully proofread.

भट्टि-काव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे प्रथमो वर्गः,
सलिल - समुदयैर् महा-
तरङ्गैर्
भुवन-भर- क्षमर्मप्य - भिन्न-वेलम् ॥ ५२ ॥
 
-
 
जलनिधिमित्यादि - महेन्द्रकुञ्जत् जलनिधिमगमन् गतवत्यः लवङ्गसेनाः ।
लुढिवाच्चेरङ् । प्रचयेन उच्चतया तिरोहितास्तिग्मरश्मिभासो येन निकुञ्जन
तस्मान्निकुञ्जत् । सलिल समुदयैर्महातरंगैर्महोर्मिभिः भुवनस्य भरणे क्षममपि
शक्तमपि। '१५८६। भृ भरणे' इति क्रैयादिकः । तस्य ऋतोरपि रूपम्। अभिन्नवेलं
अनतिक्रान्तमर्यादं जलनिधिम् । उदार मिति उदात्तमित्यर्थः । महानुभावताप्रति-
पादनात् । यतो महातरङ्गैर्जल समूहैर्भुवनभरक्षममपि अभिन्नवेलमिति । द्विवि-
धमुदारं महानुभावतया विविधरलयोगाञ्चेति । इयं महानुभावता दर्शिता ॥
द्वितीयमाह -
 
उदारमेव -
८६२ - पृथु गुरु-मणि-शुक्ति-गर्भ- भासा
 
ग्लपित-रसा तल - संभृता॒ऽन्धकारम् ॥
उपहत- रवि- रश्मि - वृत्तिर्मुच्चैः
 
प्रलघु- परिप्लवमान - वज्र-जालैः ॥ ५३ ॥
 
पृथ्वित्यादि - पृथवो महान्तः गुरवस्तु न परिच्छेद्या मणयो मौक्तिका
यासां शुक्तीनां तथाविधानां गर्भस्य भासा दीया ग्लपितं क्षयितं रसातले संभृ-
तमुपचितमन्धकारं येन तम् । उच्चैरुपरि प्रलघूनामल्पानां परिष्ठवमानानां
वज्राणां यानि जालानि समूहाः तैरुपहता रविरश्मिवृत्तयो यस्मिन् सः । तं
जलनिधिमगमन् । यद्वज्रं वारिणि तरति तत्प्रशस्तमित्युक्तम् । 'एतदेवापरेऽन्येन
चाक्यार्थेनान्यथा विदुः ॥ नानारत्ववियुक्तं यत्तत्किलोदारमुच्यते ॥' इति ॥
उदारमेव
-
 
८६३ - समुपचित जलं विवर्धमानै-
रं- मल- सरित्-सलिलैर् विभावरीषु ॥
स्फुटम॑वगमयन्त मूंढ - वारीन्
 
शश - धर - रत्न - मयान् महेन्द्र सानून् ॥ ५४ ॥
समुपचितजलमित्यादि - विभावरीषु विवर्धमानैरमलैः सरित्सलिलैः
समुपचितजलं उदधिं स्पष्टमवगमयन्तं बोधयन्तम् । किमित्याह - महेन्द्र सानून्
शशधररखमयान् चन्द्रकान्तस्वभावान् ऊढवारीन् । अन्यथा कथं धीयते जलं
यदि चन्द्रकान्तसानवो न स्युः । उदारमेवेति रत्नयोगात् ॥