This page has not been fully proofread.

स्था लक्ष्य-रूपे कथानके 'सीताभिज्ञानदर्शनं' नाम दशमः सर्गः– २८१
समीपे कृतवसतिं कृतावस्थानं समीयुः । तदेवासमानत्वं दर्शयन्नाह - स्थिरं
अचलं अतुलोन्नतिं असाधारण महत्त्वमूढतुङ्ग सेवं उद्धृतमहामेवं आश्रयणीयत्वात् ।
ऊर्जस्वीति साहंकारवस्त्वभिधानात् ॥
 
-
 
पर्यायोक्तिः-
८५९–स्फटिक-मणि-गृहै: स-रत्न- दीपेः
प्रतरुण - किन्नर-गीत-निस्वनैश् च ॥
अमर-पुर- मतिं सुराऽङ्गनानां
दधतम॑-दुःखम॑नल्प-कल्पवृक्षम् ॥ ५० ॥
 
-
 
स्फटिकमणिगृहैरित्यादि - स्फटिकमणिगृहैः रत्नदीपयुक्तः प्रतरुणानां कि-
नराणां गीतनिस्वनैश्च हेतुभूतैः अमरपुरमति स्वर्गवा सुराङ्गनानां दधतं जनय
न्तम्। अदुःखं न विद्यते दुःखमस्मिन्निति सुखहेतुमित्यर्थः । बहुकल्पवृक्षं समीयुः ।
पर्यायोक्तिरिति अमरपुरमतिं दधतमित्यनेन पर्यायेण वचनगत्या तदेवामरपुर-
मिनि प्रतिपादनात् । तथा चोक्तम्-'पर्यायोक्तं यदन्येन प्रकारेणाभिधीयते' इति ॥
 
समाहितम् -
 
८६० - अथ दहशुरुदीर्ण-धूम-धूत्रां
दशमु॑दधि-व्यवधिं समेत-सीताम् ॥
सह-रघुतनयाः प्लवङ्ग-सेनाः
 
पवन सुताऽङ्गलि-दर्शितायु॑द॒क्षाः ॥ ५१ ॥
 
·
 
-
 
अथेत्यादि — अथ प्रायनन्तरं प्लवङ्गसेनाः सहरघुतनया दिशं ददृशुः । उद्-
धिव्यवधिं सजलधिव्यवधानां दक्षिणामित्यर्थ: । '३२७० । उपसर्गे घोः किः
।३।३।९२ । उदीर्णेन महता धूमेन धूम्रामस्पष्टाम् । समेतसीतां संगता सीतान-
येति तृतीयार्थे बहुव्रीहिः । पवनसुतस्याङ्गुल्या दर्शिताम् । उदक्षाः ऊर्ध्वाकृताक्षाः ।
'८५२ । बहुव्रीहौ सक्थ्यक्ष्णोः-।५।४।११३॥ इति षच् । षिलक्षणो ङीष् न
भवति तस्यानित्यत्वात् । तेन दंष्त्युपपन्नं भवति । समाहितमिति अनन्यमन-
स्कतया दिशो ऽवलोकनात् ॥
 
कलापकं चतुर्भिः ५१-५४-
उदारम्
 
८६१ - जल-निधिमंगमन् महेन्द्र कुञ्जत्
 
प्रचय - तिरोहित-तिग्म-रश्मि - आसः ॥