This page has not been fully proofread.

२८० भट्टि- काव्ये - तृतीये प्रसन्न काण्डे लक्षण रूपे प्रथमो वर्गः,
 
प्रेयः -
 
BUSCARON
 
८५६ - मधुकर विरुतैः प्रियाध्वनीनां
 
सरसि-रुहैर् दयितता॒ऽऽस्य-हास्य-लक्ष्म्याः ॥
स्फुटम॑नु॒हरमाणमा॑दधानं
 
पुरुष पतेः सहसा परं प्रमोदम् ॥ ४७ ॥
मधुकरविरुतैरित्यादि–प्रियाध्वनीनां सीतासंबन्धिनां जल्पितानां मधु-
करविरतैः स्फुटं स्पष्टमनुहरमाणमनुकुर्वन्तं सादृश्यमित्यर्थात् । दयितायाः सीतायाः
यदास्यं हासश्चैतयोर्लक्ष्म्याः सरसिरुहैः सादृश्यमनुहरमाणं सन्तं महेन्द्रम् ।
तत्र पद्मैरास्यलक्ष्म्याः कुमुदैसलक्ष्म्याः । अथवा '६३० । तुल्यायें:- ।२।३।७२।'
इति पष्ठी । अनुहरमाणशब्दस्य तुल्यार्थत्वात् । सहशीभवन्तमित्यर्थः । पुरुपपतेः
रामस्य सहसा तत्क्षणं आगतमात्रस्येत्यर्थः । परमुत्कृष्टं प्रमोदमादधानं जनयन्तं
समीयुः । प्रेय इति प्रियतमवस्त्वभिवानात् ॥
 
रसवत् -
 
८५७-ग्रह-मणि-रसनं दिवो नितम्बं
विपुलम॑नु॒त्तम-लब्ध - कान्ति-योगम् ॥
च्युत घन वसनं मनोऽभिरामं
शिखर- करैर् मदनादिव स्पृशन्तम् ॥ ४८ ॥
 
-
 
ग्रहेत्यादि - दिवो नितम्बं मध्यभागं ग्रहाः मणिरसनेव यस्य । विपुलं
विस्तीर्णम् । न विद्यते उत्तमोऽस्मादित्यनुत्तम अतिशयवान् । लब्धः कान्त्या
योगो येन । च्युतो घनो वसनमिव यस्मात् । शिखरैः करैरिव मदनादिव स्पृशन्तं
महेन्द्रम् । रसवदिति दिवो गिरेश्च स्त्रीपुंसयोरिव शृङ्गाररसाभिधानात् ।
तथा चोक्तम्- 'रसवदर्शितं स्पष्टं शृङ्गारादिरसं यथा ।' इति ॥
 
ऊर्जस्वी-
4
 
-
 
८५८ प्रचपलम॑ गुरुं भराऽसहिष्णुं
जनम॑समानम॑नू॒र्जितं विवर्ज्य ॥
कृत - वसतिमि॑िवाऽर्णवपकण्ठे
स्थिरम-तुलोन्नतिर्मूढ - तुङ्ग-मेघम् ॥ ४९ ॥
 
प्रचपलमित्यादि —– जनं लोकं प्रचपलं अस्थिरं अगुरुं लघु अत एव भरा-
सहिष्णुं अनूर्जितं अनहंकारं विवर्यैवासमानत्वात् अर्णवस्य समुद्रस्योपकपुठं