This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'सीताभिज्ञानदर्शनं' नाम दशमः सर्गः – २७९
 
मुमुचुः प्रययु, द्रुतं समीयुर्,
 
वसुधां, व्योम, महीधरं महेन्द्रम् ॥ ४४ ॥
कपिपृष्टगतावित्यादि - ततोऽनन्तरं नरेन्द्रौ रामलक्ष्मणौ कपयश्च सर्व
एते मुमुचुः वसुधां त्यक्तवन्तः । प्रययुयम आकाशम् । महेन्द्रं महीधरं समीयुः
गतवन्तः । लिटः कित्त्वे गुणाभावाद्धातोरियङ् । नरेन्द्र किंभूतौ । कपिपृष्ठगतौ
हनूमन्तमारूढौ । यथासंख्यमिति मुमुचुरित्यादिना क्रियाणां वसुधादीनां च
कर्मणामनुक्रमशो निर्देशात् । यथोक्तम्- 'भूयसामुपदिष्टानां क्रियाणामथ कर्म-
णाम् ॥ क्रमशो योऽनुनिर्देशो यथासंख्यं तदुच्यते ॥' इति ॥
 
उत्प्रेक्षा-
८५४ स्थितमि॑िव परिरक्षितुं समन्ता-
दु॑दधि-जौघ-परिष्लवाद् धरित्रीम् ॥
गगन-तल - वसुन्धराऽन्तराले
जल-निधि-वेग-सहं प्रसार्य देहम् ॥ ४५ ॥
 
स्थितमित्यादि – उदधिजलौघात्समन्ततो यः परिप्लवो विनाशः तस्माद्ध-
रित्रीं परिरक्षितुमिव गगनतलवसुन्धरयोरन्तराले देहं शरीरं जलनिधिवेगं सहत
इति मूलविभुजादित्वात्कः । प्रसार्य स्थितं महेन्द्रं समीयुः । उत्प्रेक्षेति । यथो-
क्तम्-'अविवक्षितसामान्यात्किंचिञ्चोपमया सह ॥ अतद्गुणक्रियारोपादुत्प्रेक्षा
तिशयान्विता ॥' इति । अत्र महीधरसामान्यस्यापि विवक्षितत्वादविवक्षितं
सामान्यत्वं रक्षितुमिवेति किंचिदुपमया सह महेन्द्रगिरेरतद्गुणतया रक्षणक्रिया-
योगः । गगनतलं वसुन्धरां व्याप्य स्थितमित्यतिशयान्विता ॥
 
वार्ता-
८५५ - विषधर-निलये निविष्ट-मूलं
 
शिखर-शतैः परिमृष्ट-देव-लोकम् ॥
घन - विपुल नितम्ब-पूरिता॒शं
 
-
 

 
फल- कुसुमाऽऽचित - वृक्ष रम्य कुञ्जम् ॥ ४६ ॥
विषधरनिलय इत्यादि — विषधर निलये पाताले निविष्टमूलं महेन्द्रम् ।
शिखरशतैः करणभूतैः परिसृष्टः संसृष्टः देवलोको येन । घनैर्निरन्तरैर्विपुलैर्वि-
स्तीर्णैर्नितम्बैर्मेखलाभागैः पूरिता व्याप्ता आशा दिशो येन । फलकुसुमा चितैर्वृक्षैः
रम्यं कुअं गहनं यस्मिन् । वार्तेति तत्त्वार्थकथनात् । सा द्विविधा विशिष्टा
निर्विशिष्टा च । तत्र या पूर्वा स्वभावोक्तिरुदिता । यथेयमेव । तथा चोक्तम्-
'स्वभावोक्तिरलंकार इति केचि प्रचक्षते ॥ अर्थस्य तादवस्थ्ये च स्वभावोऽभिहितो
यथा ॥' इति । निर्विशिष्टा वार्ता नामालंकारः । यथोक्तम्- 'गतोऽस्तमको भाती-
दुर्यान्ति वासाय पक्षिणः । इत्येवमादिकं काव्यं वार्तामेवां प्रचक्षते ॥' इति ॥