This page has not been fully proofread.

२७८
 
भट्टि-काव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे प्रथमो वर्गः,
 
-
 
समासोक्तिः -
 
८५१ - स च विह्वल सत्त्व संकुल:
परिशु॒ष्यन्नभवन् महा-हृदः ॥
परितः परिताप-मूच्छितः,
 
पतितं चा ऽम्वु निरभ्रमप्सितम् ॥ ४२ ॥
 
*
 
सचेत्यादि – सच रामो महादः महादसमः सीताविरहात् विह्वलेना.
कुलेन सत्वेन चेतसा संकुलो व्याप्तः । परिशुष्यन् शोपमुपगच्छन् परितः समन्तात्
परितापमृच्छितः शोकसंतापेन मूर्च्छान्वितोऽभवत् भूतः । अनन्तरं चाम्बु जलं
सीता वार्ता श्रवणमीप्सितं अभिप्रेतं निरभ्रमाकस्मिकं पतितमित्येकोऽर्थः । महादः
परिशुप्यन् विह्वलैः सवैर्मत्स्यादिभिः संकुलो व्याप्तः । परितापमूर्च्छितः अर्कतापा-
न्वितोऽभवत् । अम्बु च निरभ्रं विना मेघेन पतितमिति द्वितीयः । समासोक्तिः ।
यथोक्तम्–'यत्रोक्तेर्गम्यतेऽन्यो ऽर्थस्तत्समान विशेषणः ॥ सा समासोक्तिरुदिता
संक्षितार्थतया यथा ॥' इति । एवं च कृत्वा अयं लेपाद्भिद्यते । लेपे हि द्वयोरपि
श्रयमाणत्वात् ॥
 
अतिशयोक्तिः-
८५२ - अथ लक्ष्मण-तुल्य - रूप-वेशं
गमनाssदेश-विनिर्गताऽग्र-हस्तम् ॥
कपयो ऽनुययुः समेत्य रामं
 
नत- सुग्रीव - गृहीत - साऽऽदराज्ञम् ॥ ४३ ॥
 
अथेत्यादि- - अथ वार्ताश्रवणानन्तरं कपयः समेत्य मिलित्वा राममनुययुः
अनुगतवन्तः । लक्ष्मणेन तुल्यं रूपं वेशश्च यस्य रामस्य गमनाय प्राणाय
आदेश: तदर्थं विनिर्गतौ अग्रहस्तौ यस्य । नतेन प्रणतेन सुग्रीवेण गृहीता प्रति
ष्ठिता सादराज्ञा यस्य तं रामम् । अतिशयोक्तिरिति अतिशयाभिधानात् ।
अत्र सुष्टृपि नामासौ लक्ष्मणे च तुल्यरूपवेशः स्यात् न तु प्रत्यक्षप्रमाणपरिच्छेद्य
इति लोकातिक्रान्तवचनमेतद्वचनम् । अवश्यं च कश्चिद्विशेपोऽस्ति । यथोक्तम्-
'निमित्ततो यत्र वचो लोकातिक्रान्तगोचरम् ॥ मन्यन्तेऽतिशयोक्किं तामलं-
कारतया यथा ॥ ' इति ॥
 
कुलकम् ४३-४९-
यथा संख्यम् -
 
८५३ - कपि-पृष्ठ- गतौ ततो नरेन्द्रौ.
 
कपयश च ज्वलिताऽग्नि- पिङ्गलाऽक्षाः ॥