2023-02-15 17:22:33 by ambuda-bot
This page has not been fully proofread.
२७६ भट्टि-काव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे प्रथमो वर्गः,
इदानीमलंकारान्तराण्याह-
अर्थान्तरन्यासः-
८४६ - 'अहृत धनेश्वरस्य युधि यः समेत-मायो धनं,
तम॑हमि॑तो विलोक्य विबुधैः कृतोत्तमाऽऽयोधनम् ॥
विभव मदन निहत-हिया ऽतिमात्र संपन्नकं,
व्यथयति सत्-पथार्दधिगता ऽधवे॑ह संपन् न कम्.३७
अहृतेत्यादि — यो द्विषन् युधि संग्रामे समेतमायः समेता प्राप्ता माया
येनेति तृतीयार्थे बहुव्रीहिः । मायावीत्यर्थः । धनेश्वरस्य धनदस्य धनमहृत हृत.
वान् । '२३६९। हस्वादङ्गात् । ८।२।२७॥ इति सिचो लोपः । तं विबुधैर्देवैः सह
कृतोत्तमायोधनं कृतमहासंग्रामम् । निहुता अपलपिता होर्लजा येन विभवम
देन तेन निहुतहिया अतिमात्रं सुष्टु सम्पन्नकं युक्तं येन परस्त्रियमपहृत्यानीतवा
नसौ तं विलोक्य अहमितः ग्राप्तः । विभवमदो लज्जां त्याजयतीत्यमुमेवार्थ
अनुस्मृतार्थान्तरमाह — अथवेति । अथवाशब्दे निपातसमुदायः यस्मादर्थे वर्तते ।
यस्मादिह लोके संपत् विभूतिरधिगता प्राप्ता सत्पथात् सन्मार्गात् कं न
व्यथयति चलयति । व्यथिरत्र चलने वर्तते । अर्थान्तरन्यास इति उक्तादर्था-
दन्यस्योपन्यासात् । यथोक्तम्- 'उपन्यसनमर्थस्य प्रक्रान्तादपरस्य यत् ॥ ज्ञेयः
सोऽर्थान्तरन्यासः पूर्वार्थानुगतो यथा ॥' इति ॥
आक्षेप:-
.
-
८४७ - ऋद्धि-मान् राक्षसो मूढश्, चित्रं नाऽसौ यदु॑द्धतः ॥
को वा हेतुरंनार्याणां धर्म्ये वर्त्मनि वर्तितुम् ॥ ३८ ॥
ऋद्धिमानित्यादि — यदसावुद्धतो दुर्वृत्तः न तच्चित्रमाश्चर्यम् । यस्मादसौ
ऋद्धिमान् राक्षसश्च । उभयथा विमृढ इत्येतदयुक्तमिति प्रतिपेधयन्नाह - को वेति
किमनेनोक्तेन यस्मादनार्याणां तद्विधानां धर्म्ये धर्मादनपेते वर्त्मनि मार्गे वर्तितुं
को वा हेतुः किं नाम कारणम् । नैवेत्यर्थः । आक्षेप इति प्रतिषेधो नाम । यथो-
क्तम्-प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया ॥ आक्षेप इति तं सन्तः शंसन्ति
द्विविधो यथा ॥' इति । अत्र पूर्वार्धनोक्को य इष्टोऽर्थः तस्य को वेत्यादिना
विशेषप्रतिपादनेच्छया प्रतिषेध इति । स च उक्त-वक्ष्यमाणविषयभेदाद्विविधः ।
अयमुक्तविषयः ॥
आक्षेप एव -
८४८ - तस्या अधिवासे तनुरुत्सुका ऽसौ
दृष्टा मया राम-पतिः प्र-मन्युः ॥
कार्यस्य सारो ऽयमुदीरितो वः,
प्रोक्तेन शेषेण किमुद्धतेन ॥ ३९ ॥