This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'सीताभिज्ञानदर्शनं' नाम दशमः सर्गः – २७५
 
-
 
समपश्यदपेत-
मैथिलिं
 
दधतं गौरव - मात्रमा॑त्मवत् ॥ ३४ ॥
 
·
 
अवसन्नरुचिमित्यादि- तं शिरोमणिं आत्मवदात्मानमिव समपश्यद्रामः ।
६१७७८ । तेन तुल्यम् - /५/६/११५।' इति वनिः । अवलन्नरुचिं मन्दप्रसं
वेणीबन्धनमलिनत्वात् । इतरत्र सशोकत्वात् । वनागतं अशोकवनिकाख्याना-
दागतं इतरं पितुरादेशाद्वनमागतम् । सुम्सुपेति समासः । अनामृष्टं अनपनीतं
यद्वजः तेन विधूसरम् । अभयमपि अपेतमैथिलिं अपेता मैथिली येन यस्माद्दा ।
दुधतं गौरवमात्रं गुरुत्वमेव न दीत्यादिकं इतरं माहात्म्यं दधतम् । तद्धितोप-
मेति तद्धितप्रत्यया दृष्टव्याः ॥
 
लुप्तोपमा -
 
८४४ - सामर्थ्य - संपादित वाञ्छिताऽर्थश्
 
-
 
चिन्ता मणिः स्यान् न कथं हनूमान् ॥
स-लक्ष्मणो भूमि-पतिस् तदानीं
शाखा- मृगाऽनीक-पतिश् च मेने. ॥ ३५ ॥
 
सामर्थ्यत्यादि – सामर्थ्यन शक्त्या संपादितो निष्पादितो वाञ्छितोऽभिलषि-
तोऽर्थो येन स हनूमान् कथं चिन्तामणिश्चिन्तामणिरिव न स्यात् । इति तदानीं
मेने ज्ञातवान् । सलक्ष्मणः सह लक्ष्मणेन भूमिपती रामः शाखामृगानीकपतिश्च
सुग्रीवः । लुप्तोपमेति चिन्तामणिरित्यत्रेवशब्दार्थस्य गम्यमानत्वात् लुप्तोपमेति ॥
समोपमा -
 
८४५ - युष्मानं-चेतन् क्षय-वायु - कल्पान्
सीता - स्फुलिङ्गं परिगृह्य जाल्मः ॥
लङ्का - वनं सिंह- समो ऽधिशेते
मतुं द्विषन्नित्यवर्द्धनूमान् ॥ ३६ ॥
 
युष्मानित्यादि - युष्मान् रामादीन् क्षयवायुकल्पान् प्रलयकालमहावायु-
सदृशान् अचेतन् अजानन् । '३९ । चिती संज्ञाने' इति भौवादिकः । द्विषन् दशा-
ननः जाल्मः मूर्खः सीतास्फुलिङ्गं सीतामग्निकणमिव परिगृह्यादाय लङ्का-वनमि-
वाधिशेते। मर्तुं मरिष्यामीति सिंहसम इत्यवदद्धनूमान् । समोपमे सम-
शब्देनोपमाया अभिधानात् । अन्न निभ-सदृशादयोऽपि द्रष्टव्याः ॥