This page has not been fully proofread.

२७४ भट्टि- काव्ये - तृतीये प्रसन्न काण्डे लक्षण
रूपे प्रथमो वर्गः,
 
उपमाया लक्षणम्- 'विरुद्धेनोपमानेन देशकालक्रियादिभिः ॥ उपमेयस्य यत्साम्यं
गुणमात्रेण सोपमा ॥ इति । अत्र विरुदेशकालक्रियागुणः पुरुषोत्तम उपभान
तेन रागस्योपमेयस्य तपोवनस्थत्वेन विटजटाजिनवल्कलत्वेन नरानुकारिलक्ष्म-
जेनानुगतत्वेन च गुणमात्रेण साम्यमुपमानम् ॥
 
चथेवशब्द उपमार्थसूचकस्तथान्योऽपीति दर्शयन्नाह -
यथोपमा -
 
८४१ - कर पुट- निहितं दधत् स रत्न
परिविरलाऽङ्गुलि निर्गतता॒ऽल्प-दीप्ति ।
तनु-कपिल-घन-स्थितं यथेन्दुं
 
नृपम॑नमत् परिभुग्न जानु मूर्धा ॥ ३२ ॥
 
करपुटनिहितमित्यादि — कुरपुटे करयुग्मे निहितं न्यस्तं रत्तं सीताचूडामणिं
परिविरलाङ्गुलियो निर्गता अल्पा दीप्तयो यस्य तद्लं दधद्वारयन् स हनूमान्
नृपं राममनसत् प्रणतवान् । परिभुने अवनते जानुनी मूर्धा च यस्य हनुमतः
यथेन्दुं इन्दुमिव तनुः अच्छः कपिलश्च यो धनः मेवः तन्त्र स्थितमिन्दुमित्र रत्नम् ।
यथोपमेति यथाशब्देनोपमार्थस्य गम्यमानत्वात् ॥
 
सहोपमा -
 
८४२ - रुचिरोन्नत-रत्न- गौरवः
परिपूर्णा- ऽमृत-रश्मि-मण्डलः ॥
समदृश्यत जीविताऽऽशया
सह रामेण वधू - शिरोमणिः ॥ ३३ ॥
 
रुचिर इत्यादि - वधूशिरोमणिः सीताचूडामणिः । उन्नतं महङ्गवगौरवं
महार्थ्यादिलक्षणं यस्य रुचिरो दीप्तिमांश्वासी उन्नतरत्न गौरवश्चेति सः । परिपूर्ण
स्यामृतरश्मेश्चन्द्रमसो मण्डलमिव मण्डलं यस्य सः । रामेण समदृश्यत संदृष्टः ।
कर्मणि लङ् । जीविताशया सह सार्धं तदर्शनतो जीवितोऽस्मीति तदाशया सह ।
सा रुचिरा तुष्टिदा रुचि राति ददातीति कृत्वा । उन्नतरत्तगौरवादुन्नतं रखेष्विव
गौरवं बहुमानो यस्यामिति । परिपूर्णममृतममरणं रश्मिमण्डलं यस्यामिति ।
सहोपमेति सहशब्देन जीविताशया उपमाद्योतनात् ॥
 
तद्धितोपमा -
 
P
 
८४३ - अवसन्न रुचिं वऽऽगतं
तम॑ना॒ऽऽमृष्टरजो विधूसरम् ॥