This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'सीताभिज्ञानदर्शनं' नाम दशमः सर्गः – २७३
 
दुधुवुर् मधु-काननं ततः
 
कपि-नागा मुदिताऽङ्गाऽऽज्ञया ॥ २९ ॥
परिखेदितेत्यादि – तत उत्तरकालं कपयो नागा इव हस्तिन इव कपिनागाः
मुदितस्याङ्गदस्याज्ञया मधुकाननं सुग्रीवस क्रीडोद्यानं दुधुवुः कम्पितवन्तः ।
मधून्युपभुज्य संभ्रममकुर्वन्नित्यर्थः । परिखेदिताः परिमृदिताः विन्ध्यवीरुधो
विन्ध्यलतागुल्मा यैः । परिपीतममलनिर्झराम्भो यैः । अर्धरूपकमिति पश्चिमा
कपिनागा इति रूपितम् ॥
 
,
 
एतदन्वर्थोपमा युक्तं ललामकम्-
८३९ - विटपि-मृग-विषाद - ध्वान्त - मुद् वानराऽर्कः
प्रिय-वचन- मयूखैर् वोधिताऽर्थाsरविन्दः ॥
उदय- गिरिमि॑िवा ऽद्रिं संप्रमुच्या ऽभ्यगात् खं
नृप - हृदय- गुहा - स्थं घ्नन् प्र - मोहाऽन्धकारम् ॥ ३० ॥
विटपीत्यादि-वानरार्क: वानरोऽर्क इव वानरार्कः । उदयगिरिमिवाद्रि
पर्वतं महेन्द्रं संप्रमुच्य खमाकाशमभ्यगात् अभिगतवान् । विटपिमृगाणां यो विषाद
आसीत् कथं सीतान्वेषणीयेति स ध्वान्तमिव तं नुदतीति विप् । प्रियवचनानि
मयूखा इव तैः करणभूतैः बोधितमर्था रविन्दं येन । अर्थः सीतोपलब्धिः सोऽर-
विन्दमिव । नृपहृदयं गुहेव तत्र तिष्ठतीति नृपहृदयगुहास्थम् । प्रमोहो विवादो-
अन्धकार इव तं नन् हनिष्यन् । वर्तमानसमीपत्वात् भविष्यति लट् । एतदिति
रूपकं अन्वर्धयोपमया युक्तं ललाम नाम । यत उदेत्यस्मादित्युदकः '३१८८।
अकर्तरि च कारके - ।३।३।१९।' इत्यच् । स चासौ गिरिश्चेत्यनुगतार्थता । यत्रान्व
र्थता नास्त्युपमायाः तदुपमायुक्तमेव रूपकं दृष्टव्यम् ॥
उपमालंकारं दर्शयन्नाह -
 
इवोपमा -
 
८४० - रघु-तनयम॑गात् तपो- वन - स्थं
 
विघृत - जटाऽजिन-वल्कलं हनूमान् ॥
परमिव पुरुषं नरेण युक्तं
 
सम-शम - वेश-समाधिना ऽनुजेन ॥ ३१ ॥
 
>
 
रघुतनयमित्यादि- हनूमान् रघुतनयमगात् प्राप्तवान् । तपःप्रधानं वनं
तपोवनं तत्र स्थितम् । विटता जटा अजिनं चर्म वल्कलं च येन तम् । अनुजेन
कनीयसा भ्रात्रा लक्ष्मणेन समास्तुल्या: शमा वेशाः समाधयश्च यस्य तेन युक्तं
परममुत्तमं पुरुषमिव पुरुषोत्तममिव नरेण युक्तम् । बदरिकाश्रमे नरनारायण-
योस्तपश्चर्या स्थितत्वात् । इवोपमेति इवशब्देनोपमार्थस्य गम्यमानत्वात् ।