This page has not been fully proofread.

२७२ भट्टि- काव्ये तृतीये प्रसन्न काण्डे लक्षण-रूपे प्रथमो वर्गः,
 
Ho
 
अस्यैव भेदा अपरे चत्वारः -
 
एतद् विशिष्टोपमा युक्तं रूपकम्-
८३६ - चल - पिङ्ग - केशर - हिरण्य-लताः
स्फुट - नेत्र-पति-मणि- संहृतयः ॥
कलधौत - सानव इवा॑ ऽथ गिरेः
कपयो वभुः पवन-जाऽऽगमने ॥ २७ ॥
 
चलेत्यादि-
[-अथ पवनजागमने हनुमदागमने कपयो गिरेस्तस्यैव कलधौ-
तसानव इव सौवर्णैकदेशा इव वभुः शोभन्ते स्म । पिङ्गकेशराणि पिङ्गलसटाः
तानि हिरण्यलता इव सुवर्णलता इव ताश्चला येषां कपीनाम् । नेत्रपङ्कयो मणि-
संहतय इव ताः स्फुटा उज्वला येषामिति । एतदपि रूपकमेव । किंतु कलधौ-
तत्वेन सानूनां विशिष्टत्वाद्विशिष्टोपमायुक्तं कमलकं नाम ॥
 
एतच्छेषाऽर्थाऽन्ववसितमवतंसकम्-
८३७ – कपि-तोय-निधीन् प्लवङ्गमेन्दुर्
मदयित्वा मधुरेण दर्शनेन ॥
वचनाऽमृत-दीधितीर् वितन्व-
कृता ऽऽनन्द-परीत - नेत्र-वारीन् ॥ २८ ॥
 
कपीत्यादि - प्लवङ्गम इन्दुरिव लवङ्गमेन्दुः । कपयस्तोयनिधय इव कपि-
तोयनिधीन् । मधुरेण सुखेन दर्शनेन मदयित्वा हर्षयित्वा । '८७२ । मदी हर्ष-
ग्लेपनयोः ।' इति घटादित्वान्मित्त्वे ह्रस्वत्वम् । वचनानि अमृतमयदीधितय इव
वचनामृतदीधितीवितन्वन् विस्तारयन् । लोकवृत्तान्तसंबोधकमाह्लादकं वचनमु
दाहरन्नित्यर्थः । आनन्देन हर्षेण परीतं संजातं नेत्रवारि येषां तानेवंविधानकृत
कृतवान् । एतद्रूपकं शेषार्थान्ववसितम् । रूपितादन्यो योऽर्थः 'आनन्दप-
रीतनेत्रवारीन्' इति स शेषः तेनान्ववसितं युक्तमवतंसकं नाम विसदृशस्यार्थस्य
लपितत्वात् । तदेवान्यैः स्वण्डरूपकमित्युच्यते ॥
 
अर्ध-रूपकम् -
 
८३८ - परिखेदित विन्ध्य-वीरुधः
परिपीताऽमल-निर्झरा॒ऽम्भसः ॥
 
१-१२८३ । कलधौतं रूप्य-हेम्नोः ॥ २ – ११९ । भानुः करो मरीचिः स्त्री-पुंसयोर्
दीधितिः स्त्रियाम् ।" इति सर्वत्र ना० अ० ।