This page has not been fully proofread.

तथा लक्ष्ये-रूपे कथानके 'सीताभिज्ञानदर्शन' नाम दशमः सर्गः–२७१
 
स्मित-दर्शित-कार्य- निश्चयः
कपि- सैन्यैर् मुदतैर॑मण्डयत् ॥ २४ ॥
 

 
स गिरिमित्यादि –स लतामृगो हनूमान् प्रयोजककर्ता । गिरिमङ्गढादि-
भिरध्यासितं तरुखण्डमण्डितं त्वरया वेगेन समवाप्य कपिसैन्यैर्मुदितैर्हष्टेः प्रयो-
ज्यकर्तृभिः अमण्डयत् । '३३६ । मडि भूपायाम्' इति भौवादिकः । चौरादिके तु
कपि सैन्यैः करणभूतैरिति योज्यम् । मुदितत्वे कारणमाह - स्मितदर्शितकार्यनि-
चयः ईषद्धसितप्रकटीकृतसीतोपलब्धिनिश्चयः । अन्तदीपकमिति अमण्डयदिति
क्रियापदस्यान्ते निर्दिष्टत्वात् ॥
 
मध्य-दीपकम्

 
८३४–गरुडाऽनिल-तिग्म-रश्मयः
पततां यद्यपि संमता जवे, ॥
अ - चिरेण कृता॒ऽर्थमा॑गतं
तम॑मन्यन्त तथाप्य॑तीव ते ॥ २५ ॥
 
M
 
गरुडेत्यादि-पततां गच्छतां मध्ये यद्यपि गरुडादयो जवे वेगविषये
संमताः अभिमताः तथापि तं हनुमन्तं अचिरेणैव कालेन कृतार्थं कृतकृत्यमागतं
अतीव जविनं ते कपयः अमन्यन्त । मन्यतेर्लङि रूपम् । मध्यदीपकमिति
क्रियापदस्य मध्ये निर्दिष्टत्वात् ॥
 
रूपकम्
-
 
८३५ - व्रण - कन्दर - लीन-शस्त्र - सर्पः
पृथु-वक्षः-स्थल-कर्कशोरु-भित्तिः ॥
च्युत-शोणित-बद्ध-धातु-रागः
 
शुशुभे वानर-भू-धरस् तदा ऽसौ ॥ २६ ॥
 
-
 
व्रणेत्यादि — असौ वानरो भूधर इव वानरभूधरः । १७३५ । उपमितम्
।२।१।५६।' इत्यादिना समासः । तदा तस्मिन्वानरमध्यगमनकाले कृतार्थः
शुशुभे शोभते स्म । व्रणानि शस्त्रकृतानि कन्दराणीव । शस्त्राणि सर्पा इव शस्त्र-
सर्पाः व्रणकन्दरेषु लीनाः शस्त्रसर्पा यस्य । वक्षःस्थलं कर्कशोरुभित्तिरिव सा
पृथुला विस्तीर्णा यस्य सः । शोणितं बद्धधातुराग इव श्लिष्टगैरिकादिराग इव स
च्युतो यस्य । सर्वत्र '७३५॥ उपमितम्- ।२।१।५६।' इत्यादिना समासः । रूपक-
मिति सावयवेन भूधरेणोपमानेन सावयवस्य कपेरुपमेयस्य तत्स्वभावतयाध्या-
रोपितत्वात् । यथोक्तम्- 'उपमानेन तुल्यत्वमुपमेयस्य रूप्यते ॥ गुणानां समतां
दृष्ट्वा रूपकं नाम तद्विदुः ॥' इति ॥