2023-02-15 17:22:31 by ambuda-bot
This page has not been fully proofread.
२७० भट्टि- काव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे प्रथमो वर्गः,
-
मासाद्य प्राप्य हरयः कपयः संत्रस्ताः सभयाः मुमुहुः मुहुः क्षणम् । श्लोका
द्यन्तयमकमिति लोकस्यादावन्ते च यमितत्वात् ॥
अर्थालंकारस्तु दीपकरूपकादिभेदेना नेकप्रकारः । तत्र वाक्यार्थप्रकाशनाद्दीपक-
मुच्यते । तदादिमध्यान्तभेदान्त्रिविधमिति दर्शयन्नाह -
आदि-दीपकम् -
८३२ - गच्छन् स वारीण्य किरत् पयोधेः,
3
कूल स्थितांस् तानि तरून॑धुन्वन् ॥
पुष्पाऽऽस्तरांस् ते ऽङ्ग-सुखान॑तन्वन्,
तान् किन्नरा मन्मथिनोऽध्यतिष्ठन् ॥ २३ ॥
गच्छन्नित्यादि —–स हनूमान् वेगेन गच्छन् पयोधेवरीणि वेगजेन वायुना
अकरत् निक्षिप्तवान् । तानि वारीणि अधिक्षिप्तानि कुलस्थितांस्तरून धुन्वन्
कम्पितवन्ति । १३२५ । धूञ् कम्पने' इति भौवादिकः । ते तरवः कम्पिताः
पुष्पास्तरान् पुष्पाणां प्रकरान् आस्तीर्यन्त इति '३२३२ । ऋोरप् ।३।३॥५७ । '
अङ्गसुखान् मृदुस्पर्शत्वात् कायस्य सुखहेतूनतन्वन् विस्तारितवन्तः । तान् पुष्पा-
स्तरान् किन्नराः मन्मथिनः कामवन्तः, अध्यतिष्टन् अध्यासितवन्तः । ८५४२।
अधि-शीङ्–।१।४।४६।' इत्यादिनाधिकरणस्य कर्मसंज्ञा । आदिदीपकमिति
क्रियापदस्यादौ श्रूयमाणत्वात् । द्विविधं ह्यादिदीपकम् । एकतिङनेकतिसहितं
च । तत्र यत्पूर्वं तदेकमप्यनेकार्थप्रकाशकम् । यथाह भामहः- 'मदो जनयति
श्रीतिमानन्दं मानभङ्गुरम् । यत्प्रियासंगमोत्कण्ठामसह्यां मनसः शुचम् ॥' इति ।
यत्तु द्वितीयं तत्समस्तवाक्यार्थप्रकाशं यथेदमेव । तत्र ह्युत्तरेषां वाक्यार्थानामा-
धेनैव दीपनात् । तस्मिन्नसति शेषाणामस्फुटत्वात् । पूर्वकं परित्यज्य द्वितीयस्य
प्रदर्शनं यत् तत्प्रतीपदीपकं नाम चतुर्थमस्तीति दर्शनार्थम् । तद्यथा- 'तृष्णां
छिन्धि, भज क्षमां, जहि मदं, पापे रतिं मा कृथाः, सत्यं ब्रूह्यनुयाहि साधुप-
दुवीं, सेवस्व विद्वज्जनान् ॥ मान्यान्मानय, विद्विषोऽप्यनुनय, प्रख्यापय स्वान्
गुणान्, कीर्ति पालय, दुःखिते कुरु दयामेतत्सतां चेष्टितम् ॥' इति । शेषो
यदन परस्परमसंबद्धमिति ॥
अन्त- दीपकम् -
८३३ - स गिरिं तरु-खण्ड-मण्डितं
समवाप्य त्वरया लता मृगः ॥
.१ - इदं चेन्द्रवज्रावृत्तम् । तलक्षणमपि तत्रैव — 'स्यादिन्द्रवज्रा यदि तौ ज-गौ गः' इति ।