2023-02-15 17:22:31 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'सीताभिज्ञानदर्शनं' नाम दशमः सर्गः - २६९
वर्तमानः । समुपलब्धमारुतिवृत्तान्तः बभौ हृष्टवान् । कपिना तावदिदं कृतं रामः
पुनः समूलं छेत्स्यतीति । अनेकार्थत्वादातूनां भातिरत्र तुष्टौ वर्तते । इत्ययं
द्वितीयः । समुद्रो जलनिधिः मरुत्वान् हनुमदुत्पतनजनितवायुना युक्तः अत एव
विकृतोऽतिक्रान्तमर्यादः बभौ बभूव । अत्र सत्तायां प्रयुक्तः । इत्ययं तृतीयः ।
सलोकपालो मरुत्वान् महाभूतात्मकेन युक्तः मरुत्वान् । पूर्ववन्मतुप् । मरुत्वा-
निति व्याख्याने '८४ । झलां जशोऽन्ते ।८।२।३९॥ इति जश् स्यात् । मुद्दो
हर्षस्य दाता । पुत्रो मे सुखेन यास्यतीति मुदं राति ददातीति '२९१५॥ आतो-
अनुपसर्गे कः । ३।२॥३।' विकृतो मन्दगतिः । बभौ वाति स्म । अत्र गतौ प्रयुक्तः ।
इत्ययं चतुर्थः । अन्यस्त्वाह यमकेपु क्रियापदस्याभिधेयत्वं न दुप्यतीति तेन
दीत्यर्थ एव योज्यः । सर्वयमकमिति चतुर्णामपि पादानां सहशत्वात् ॥
महा-यमकम् -
८३० - अभियाता वरं तुङ्गं भू-भृतं रुचिरं पुरः ॥
S
कर्कशं प्रथितं धाम स-सत्वं पुष्करेक्षणम् ॥ २० ॥
अभियातेत्यादि – भूभृतं रामं वरं श्रेष्ठं तुझं महाकुलीनत्वादिति सर्वेषामु-
परि स्थितं गुणै रुचिरं सर्वाङ्गसुन्दरं पुरोऽग्रतो वक्षःस्थले कर्कशं लोमशं प्रथितं
लोके प्रख्यातं धाम गृहं वर्णाश्रमधर्माणां ससवं पराक्रमयोगात् । पुष्करेक्षणं
पद्मलोचनं अभियाता आभिमुख्येन यास्वति हनूमान् । लुदि रूपम् ॥
अभिया ऽता॒ऽऽवरं तुङ्गं भू-भृतं रुचिरं पुरः ॥
कर्कशं प्रस्थितं धाम स-सत्वं पुष्करे क्षणम् ॥ २१ ॥
#
अभियातेत्यादि — भूभृतं पर्वतं यत्राङ्गदादयः स्थिताः तमभिया अभिग-
च्छता हनूमता । कुतः । पुरो लङ्कायाः सकाशात् । पुष्करे आकाशे धाम तेजः
क्षणं मुहूर्त प्रथितं विस्तारितम् । अभियातीति '३१५८। अन्येभ्योऽपि दृश्यते
।३।२।१७८।' इति क्विप् । तृतीयैकवचने '२४०। आतो धातोः ।६।४।१४०।' इत्या-
कारलोपे अभियेति रूपम् । कीदृशं अतावरं सातत्येनाततीति पचाद्यच् । अतो
चायु: आदित्यो वा आवृणोतीयप् । आवरः । अतस्यावरं यतस्तुङ्गं उचैस्तरम् ।
रुचिरं तुष्टिदं रुचि रातीति । कर्कशं कठिनस्वभावम् । ससत्वं प्राणियुक्तम् ।
महायमकमिति श्लोकस्यैकस्य द्वितीयेन श्लोकेन यमितत्वात् ॥
श्लोकाद्यन्त यमकम् -
८३१ - चित्रं चित्रमि॑िवा ऽऽयातो विचित्रं तस्य भू-भृतम् ॥
हरयो वेगमसाद्य संत्रस्ता मुमुहुर् मुहुः ॥ २२ ॥
चित्रमित्यादि —[ भूभृतम्] भूधरं पर्वतं चित्रं गैरिकादिभिर्नानावर्ण अत
एव चित्रमिवाले ख्यमिव । आयातः आगच्छतस्तस्य हनुमतः वेगं जवं चित्रं अद्भुत-
-