This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'सीताभिज्ञानदर्शनं' नाम दशमः सर्गः – २६७
 
-
 
घनेत्यादि – तरुमृगेण कपिना जनकात्मजा दहशे दृष्टा । घनाः निरन्तराः ये
गिरीन्द्राः मेवसदृशा वा तेषां यल्लङ्घनं अतिक्रमणं तेन शालिना युक्तेन कपिना ।
वनलता काननस्था वनजयुतिलोचना पद्मस्येव कान्तिर्ययोर्लोचनयोः ते तथाविधे
लोचने यस्याः । '५१२॥ न क्रोडादिबहुचः ।४।१॥५६॥ इति ङीप्प्रतिषेधः । जन-
मता जनेनावबुद्धा पतिव्रतेयमिति । १५६६ । मनु अवबोधने' इत्यस्य भूते
निष्ठायां रूपम् । '६२७॥ न लोक-।२।३।६९।' इति षष्ठीप्रतिषेधः । कतैरि तृतीया ।
तस्यां च ६९४ । कर्तृकरणे-।२।१।३२।' इति समासः । वर्तमाने तु । '३०८९ ।
मति बुद्धि-।३।२।१८।' इत्यादिना क्तप्रत्ययः '६२५॥ तस्य च वर्तमाने ।२।३१-
६७।' इति पष्ठी । तस्यां च '७०६ । क्तेन च पूजायाम् ॥२।२।१२।' इति समास-
प्रतिषेधः स्यात् । तरुस्थलशायिनी तरुमूले यत् स्थलं तत्रैव शयाना सत्यपि
शयने । तेन '२९९०। व्रते ।३।२।८० । इति णिनिः । आदिमध्ययमकमिति
पादानामादौ मध्ये च धन-वन-जन - तरुशब्दानां यमितत्वात् ॥
वि-पथ- यमकम् -
 
८२६ - कान्ता सहमाना दुःखं च्युत-भूषा ॥
 
रामस्य वियुक्ता कान्ता सह-माना ॥ १६ ॥
 
-
 
कान्तेत्यादि – कान्ता कमनीया सहमाना वेदयमाना दुःखं वियोगजम् ।
च्युतभूषणा रामस्य कान्ता प्रिया वियुक्ता वियोगिनी सहमाना सह मानेन
वर्तत इति । '८४९। वोपसर्जनस्य ।६॥३।८२ ।' इति सभावविकल्पः । दश इति
संबन्धः । विपथयमकमिति पादद्वयातिक्रमाद्विपथेन विमार्गेण यमितत्वात् ॥
 
मध्या ऽन्त यमकम् -
 
८२७ - मितम॑वददुदारं तां हनूमान् मुदा ऽरं
 
रघु-वृषभ- सकाशं यामि देवि ! प्रकाशम् ॥
तव विदित विषादो दृष्ट कृत्स्नाऽऽमिषादः
श्रियम॑निशम॑वन्तं पर्वतं माल्यवन्तम् ॥ १७ ॥
 
-
 
मितमित्यादि – मितं अल्पाक्षरं अर्थावगाढं तां सीतां हनुमान् मुदा हर्षेण
युक्तः अवदत् कथितवान् । किमित्याह - अरं शीघ्रं हे देवि! रघुवृषभसकाशं रामस-
मीपं माल्यवन्तं पर्वतं प्रकाशं प्रकटं यामि । तव विदितविषादो ज्ञातावसादः ।
दृष्टकृत्स्नामिषादः वीक्षिताशेषनिशाचरः । आमिषं मांसमदन्तीति '२९१३ । कर्म-
ण्यण् ।३।२।१।' । '२८३० । वा सरूपोऽस्त्रियाम् ।३।१।९४॥ इति वचनात् ।
'२९७७ । दोन । ३।२।६८॥ इति विप्रत्ययेनाणो विकल्पेन बाधनात् । श्रियं
 
• १ - एतल्लक्षणं द्वादशश्लोकटिप्पणे द्रष्टव्यम् । २ - मालिनीवृत्तमिदम् । तल्लक्षणं च-
'न-न-म-य-ययुतेयं मालिनी भोगि-लोकैः' इति वृत्तरत्नाकरे भ० के० ॥