This page has not been fully proofread.

२६६ भट्टि- काव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे प्रथमो वर्गः,
ना ऽऽरीणाम॑नल-परीत-पत्र-पुष्पान् ॥
नाऽरीणाम॑ भवदु॑पेत्य शर्म वृक्षान् ॥ १३ ॥
 
नारीणामित्यादि — अरीणां संबन्धिन्यो हिरण्यवाप्यः सुवर्णघटिता वाप्यः ।
नारीणां स्त्रीणाम् अग्नितापान्देहखेदान्नापनुनुदुः नापनीतवत्यः । कुतः । आरी-
णामलसलिलाः। '११३८ । रीङ्ग स्रवणे ।' इत्यस्मादाङ्पूर्वात् 'स्वादय ओदितः'
इति निष्ठानत्वम् । आरीणं गतममलं सलिलं यासु हिरण्यवापीष्विति । वृक्षांश्चो-
येत्य गत्वा तासां शर्म सुखं नाभवत् न जातम् । अनलपरीतपत्र पुष्पत्वावृक्षा-
णाम् । आरीणां नारीणामिति योज्यम् । शत्रुसंवन्धिनीनामित्यर्थः । अरीणा-
मिमा इति '१५००। तस्येदम् । ४ । ३ । १२० ।' इत्यण् । तदन्तात् '३७० । टिड्डाणज्
-।४।१।१५।' इत्यादीना ङीप् । अत्र वृक्षानुपेत्य स्थितानामित्यध्याहर्तव्यम् ।
अन्यथा समानकर्तृकत्वात् पूर्वकाले क्त्वा प्रत्ययो न स्यात् । वृन्तयमकमिति
प्रतिपदं पुष्पफलस्येव मूलेऽवस्थितत्वात् ॥
 
पुष्प-यमकम्
८२४ - अथ लुलित पतत्रि- मालं
 
रुग्णासन-वाण - केशर तमालम् ॥
स वनं विविक्त-मालं
 
सीतां द्रष्टुं जगामाडलम् ॥ १४ ॥
 
अथेत्यादि — दाहानन्तरं लुलितानां चलितानां पतत्रिणां पक्षिणां माला
संहतिर्यस्मिन् तद्वनमशोकवनिकाख्यं स कपिर्जगाम । रुग्णा: भग्ना असनादयो
यस्मिन् वने । तन्नासन: पीतसालः, बाणः ग्रन्थिका, केशरो नागकेशरो देवव-
लभो वा । विविक्ताः शुचयो मालाः सजो यस्मिन् तद्विविक्तमालम् । सीतां
इष्टुं अलं पर्याप्तः सीतां द्रक्ष्यामीति जगाम । पुष्पयमकमिति प्रतिपादं वृन्ता-
दुपरि पुष्पमिवावस्थितत्वात् ॥
 
पादाऽऽदि-मध्य यमकम् -
८२५ – घैन - गिरीन्द्र - विलङ्घन-शालिना
वन-गता वन- ज-द्युति-लोचना ॥
 
जन-मता दहशे जनाऽऽत्मजा
तरु मृगेण तरु स्थल-शायिनी ॥ १५ ॥
 
१ – गाथावृत्तमिदम् । विषमाक्षरपादत्वात् । तदुक्तम् – 'विषमा॑ऽक्षरपादं वा पादैरसमं दश-
धर्मवत् । यच् छन्दो नोक्तमंत्र गाथेति तत् सूरिभिः प्रोक्तम् ॥ इति भट्टकेदारैः । २- अस्य
लक्षणमुक्तं प्राकू ( एतत्सर्गस्य १ लोकटिप्पणे ) ।