This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'सीताभिज्ञानदर्शनं' नाम दशमः सर्गः – २६५
अ-युग्म - पाद - यमकम्-
८२० - न वानरैः पराक्रान्तां महद्भिर् भीम विक्रमैः ॥
 
न वा नरैः पराक्रान्तां ददाह नगरीं कपिः ॥ १० ॥
नेत्यादि——वानरैरन्यैर्महद्भिर्महाप्राणैर्भीमविक्रमैः असह्यशौर्यैः शक्रादिभिः न
पराक्रान्तां नावटव्ध नगरी लङ्कां नरर्मनुष्यैर्न च पराक्रान्तां विगृहीतां कपिर्ह-
नूमान् ददाह दुग्धवान् । अयुक्पाद्यमकमिति प्रथमतृतीययोर्यमितत्वात् ॥
पादाद्यन्त - यमकम् -
 
८२१ - द्रुतं द्रुतं वह्नि- समागतं गतं
महीम॑हीन -द्युति- रोचितं चितम् ॥
समं समन्तादप- गोपुरं पुरं
 
परैः परैरप्यनिराकृतं कृतम् ॥ ११ ॥
 
द्रुतमित्यादि – यस्पुरं चितं सौवर्णगृहसंहत्या व्याप्तं तद्वह्निसमागतं अग्नि-
संयुक्तं द्रुतं विलीनम् । द्रुतं प्रवाहेण प्रवृत्तं द्रुतं शीघ्रं अहीनया उत्कृष्टया त्या
तेजसा रोदितं भासितं महीं गतं प्राप्तं अपगोपुरं अपगतपुरद्वारं अत एव
समन्तात समं तुल्यं कृतम् । परैः शत्रुभिः परैरपि उत्कृष्टैरपि शक्रादिभिर-
निराकृतं अनभिभूतं सत् । पादाद्यन्तयमकमिति पादस्यादावन्ते च यमितत्वात् ॥
मिथुन-यमकम्
८२२ - नश्यन्ति ददर्श वृन्दानि कपीन्द्रः ॥
 
हारीण्य-बलानां हारीण्यं बलानाम् ॥ १२ ॥
 
नश्यन्तीत्यादि – अवलानां स्त्रीणां अबलानां अविद्यमानरक्षकाणां वृन्दानि
समूहान् । हारीणि हारवन्ति, हारीणि अवश्यं हरन्ति । आवश्यके णिनिः ।
चेतस इत्यर्थात् । नश्यन्ति पलायमानानि सन्ति कपीन्द्रो ददर्श । मिथुनयम-
कमिति पादद्वयस्य चक्रवाकमिथुनवदवस्थितत्वात् ॥
 
वृन्त-यमकम् -
८२३ - नारीणाम॑पनुनुदुर् न देह- खेदान्
 
ना ssरीणाsमल - सलिला हिरण्य-वाप्यः ॥
 
१–वंशस्थं वृत्तम् । 'ज-तौ तु वंशस्थर्मुदीरितं ज- रौ' इति तलक्षणात् । २ - इदं तनु-
मध्यावृत्तम् । तदुक्तम्- 'त्यौ स्तम् तनुमध्या' इति । ३ – प्रहर्षिणीवृत्तम् । 'म्नौ
जूरौ गस् त्रिदश-यतिः ग्रहर्षिणीयम्' इति तल्लक्षणात् ।
 
भ० का० २३