2023-02-15 17:22:30 by ambuda-bot
This page has not been fully proofread.
२६४ भट्टि- काव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे प्रथमो वर्गः,
क्षिते संपदादिदर्शनात् विप् । '३७४ । वेरपृक्तस्य । ६।१।६७१' इति लोपात्पूर्व
'८७३ । लोपो व्योवलि ।६।१।६६॥ इति लोपः । समिद्धशरणा दीप्ता रावणस्य
पालनीया । समेिदशरणादीप्ता लङ्का देहे दग्धा ! अलं कामो ऽस्येत्यलंकामः ।
तद्भावः अलंकामता । तस्यामलंकासतायां पर्याप्तेच्छायां ईश्वरा लङ्का । सर्वेच्छा-
सम्पादनात् । समुद्द्रयमकमिति समुद्राकारेण यमितत्वात् पादद्वययोरर्धद्वय
योश्च संपुटवत्सादृश्यात् ॥
काञ्ची-यमकम् -
८१८ - पिशि॑िता॒ऽशिनाम॑नु - दिशं स्फुटतां
स्फुटतां जगाम परिविह्वल-ता, ॥
हलता जनेन बहुधा चरितं
चरितं महत्त्व रहितं महता. ॥ ८ ॥
पिशिताचिनामित्यादि — पिशिताशिनां मांसाशनां राक्षसानामनुदिशं
दिशि दिशि । '६७७ । अव्ययीभावे नृतिभ्यः ॥४।१०७१' इति टच् ।
स्फुटतां पलायमानानां परिविह्वलता स्फुटतां स्पष्टतां जगाम । अनेन चेतरेण
हलता चलता महता शौर्यादिगुणयुक्तेनापि सता यच्चरितं चेष्टितं बहुधा बहुप्रकारं
तन्महत्वरहितं महसा विकलमाचरितं अनुष्ठितं भयात् । काञ्चीयमकमिति
रसनाकारेण यमितत्वात् । तथाद्यपादस्यान्ते परस्यादौ च सदृशो विन्यासः ॥
यमकाज्ज्वली -
८९९ - न गजा नग-जा दयिता, दयिता
वि-गतं विगतं, ललितं ललितम् ॥
"
प्रमदा प्र-मदा ऽऽम-हता, महता-
म-रणं मरणं समयात् समयात् ॥ ९॥
नेत्यादि- -- गजा हस्तिनः नगजाः पर्वतजाताः । अत एव दयिता इष्टा न
दयिता: न रक्षिताः । दयतिरत्र रक्षणार्थ: । विगतं वीनां पक्षिणां गतं गमन-
मपि विगतं नष्टम् । ललितं यदीप्सितं वस्तु तललितं पीडितम् । प्रमढ़ा योषित्
प्रमदा प्रगतो मदो यस्या इति प्रमदा । हर्पशून्येत्यर्थः । आमहता रोग-
पीडितेव । आमो रोगः । इवशब्दलोपोऽत्र द्रष्टव्यः । आमेन पीडिता पलाय-
नहता वा । '४९८ । अम गत्यादिषु ।' महतां शूराणां अरणं अविद्यमानयुद्धं
मरणं विनाशं समयात् संप्राप्तम् । यातेर्लङि रूपम् । समयात् कालेन यमका-
वलीति यमकमाला ॥
१ ~~ एतद्वृत्तलक्षणं प्राक् ( एतत्सर्ग -२ श्लोके ) उक्तम् ।