This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'सीताभिज्ञानदर्शनं' नाम दशमः सर्गः -- २६३
इतस्ततो गच्छता जवता वभावः परितः न न कृता । किंतु कृतैव । काञ्चन-
सद्मचितेरित्यर्थात् । पाद्मध्ययमकमिति पादानां मध्ये यमितत्वात् ॥
 
चक्रवाल यमकम् -
 
,
 
८१६ - अवसितं हसितं प्रसितं, मुदा
विलसितं इसितं स्मर-भासितम् ॥
न स-मदाः प्रमदा हत- संमदाः,
पुर- हितं विहितं न समीहितम् ॥ ६ ॥
 
अवसित मित्यादि — हसितं यत्प्रसितं संततप्रवृत्तम् । नित्यप्रमुदितत्वा-
त्तत्रत्यजनस्य तदनिसङ्गनाइवसितं अपगतम् । १२२२॥ यो ऽन्तकर्मणि' इत्यस्य
'३०७४ । द्यति-स्यति – ।७।४।४०।' इतीध्वम् । मुदाहर्षेण यद्विलसितं शृङ्गारवि-
चेष्टितं लसितं लिष्टमनुवद्धमिति यावत् । स्मरभासितं मन्मथदीपितम् । इसितं
अल्पीकृतम् । प्रमदाश्च स्त्रियः न समदाः सदर्पा न जाता: हतसंमदा
ध्वस्तहर्षाः '३२४५ । प्रमद- संमदौ हर्षे ।३।३।६८।' इति निपातनम् । यच्च पुरः
हितं पुरानुकूलं समीहितं कर्तुरीप्सितं तन्त्र विहितं नानुष्टितमित्यर्थः । चक्रवा-
लयमकमिति मण्डलाकारेण चमितत्वात् । तथाहि । योयोः पढ़योरन्त्यव
र्णानां नेमिवदवस्थितत्वात् मध्यस्य वर्णस्य विसदृशस्य नाभिवदिति । तथा-
चास्य लक्षणम् - 'पढ़ानामवसाने तु वाक्ये स्यात्तुल्यवर्णता । प्रतिपादं भवेद्यत्र
चक्रवालं तदुच्यते ॥' इति ॥
 
समुद्र-यमकम् -
८१७ - समिद्ध-शरणादीप्ता देहे लङ्का मतेश्वरा ॥
 
समिद्-ध-शरणाऽऽदीप्-ता देहेऽलं-काम-तेश्वरा ॥७॥
समित्यादि – देहे अभ्यन्तरभागे समिद्धशरणा उज्जवलगृहा तत एव
दीप्ता शोभावती लङ्का पुरी मतेश्वरा ज्ञातमहादेवा । तत्रान्यदेवस्य नामापि
न गृह्यते । समिधो दधति हतवन्तो वेति समिद्धा ऋषयः । पूर्वस्मात् '२९१५॥
आतो अनुपसर्गे कः । ३।२।३।' इति कः । द्वितीयस्मात् '३०११॥ अन्येष्वपि
दृश्यते ।३।२।१०१।' इति ङः । अपिशब्दस्य सर्वोपाधिव्यभिचारार्थत्वात् धात्व-
न्तरादपि भवति । '११९ । झयो होऽन्यतरस्याम् ।८।४।३२॥ इति पूर्वसवर्णः ।
तान् शुणन्ति हिंसन्तीति । '२८४१ । कृत्यल्युटो बहुलम् ।३।३।११३।' इति कर्तरि
ल्युट् । समिद्धशरणा राक्षसास्तान् दानमानाभ्यामादीपयति प्रोत्साहयतीति
विप् । समिद्धशरणादीप् । रावणः तेन ताय्यते इति तायतेः कर्मणि कारके विव-
१ - एतद्वृत्तलक्षणं एतत्सर्गप्रथमश्लोके द्रष्टव्यम् ।