This page has not been fully proofread.

२६२
 
भट्टि-काव्ये
- तृतीये प्रसन्न - काण्डे लक्षण-रूपे प्रथनो वर्गः,
 
बनिता-जनेन वियता वियता
 
त्रि- पुराऽऽपदं नगर्मिता गमिता ॥ ३ ॥
 
निखिलेत्यादि— ज्वलनेनाग्निना प्रभवता वृद्धिं गच्छता भवता समुत्पद्य-
मानेन सहसा तत्क्षणं पू: पुरी निखिला सर्वा न सहसा अभवत् सानन्दा न
जाता । हासस्थानन्दकार्यत्वात् । एवमुक्तम् । '३२३९ । स्वहसोर्वा । ३।३।६२॥
इत्यपि रूपम् । वनिताजनेन वियता नभसा त्रियता भयादितस्ततो गच्छता
त्रिपुरापदं गमिता प्रापिता पृ: त्रिपुरेष्वपि दह्यमानेषु भयादितस्ततो जनो गतः
नगं त्रिकूटपर्वतमिता सती । पादान्तयमकमिति पादान्तेषु यमितत्वात् ॥
पादाऽऽदि-यमकम् -
 
८१४ - सरसां स-रसां परिमुच्च तनुं
पततां पततां ककुभो बहुशः ॥
स- कलैः सकलैः परितः करुणै-
रुदितै रुदितैरिव खं निचितम् ॥ ४ ॥
 
सरसामित्यादि-सरसां तोयाशयानां तनुं शरीरम् । सरसां सा परि-
मुच्य त्रासाच्यक्त्वा पततां पक्षिणां बहुशः बहून् वारान् ककुभो दिशः पततां
गच्छतां उदितैः शब्दितैः । वदेर्यजादित्वात्सम्यसारणम् । सकलैः समस्तैः सकलैः
माधुर्यवद्भिः । कलशब्दस्य गुणमात्रवृत्तित्वान्न तद्वति वर्तते । ततश्च सहशब्देन
समासो भवति । करुणैः कारुण्यजनकै रुदितैरिव ऋन्दितैरिव परितः समन्तात्
खमाकाशं निचितं व्याप्तम् । पादादियमकमिति पादानामादौ यमितत्वात् ॥
पाद-मध्य- यमकम् -
 
८१५ - न च कांचन काञ्चन - सद्म-चितिं
 
न कपिः शिखिना शिखिना समयौत् ॥
न च न द्रवता द्रवता परितो
हिम-हान - कृता न कृता क च न. ॥ ५ ॥
 
न चेत्यादि – काञ्चनसद्मचितिं सौवर्णगृहसंहतिं कांचन कांचिदपि शिखिना
अग्निना शिखिना ज्वालावता कपिर्न च समयौत् न च न मिश्रितवान् ।
अपि तु संश्लेषं नीतवान् । यौतेर्लुङि '२४४३ । उतो वृद्धिर्लुकि हलि ।७।३।८९।
इति वृद्धिः । क्व च क्वचिन्नाम हिमहानकृता हिमहानस्य हिमापचयस्य कर्ना
शिखिना । जहातेर्भावे ल्युट् । न च न द्रवता न च न विसर्पता अपि तु
 
१ - तोटकवृत्तमिदं लोकद्वये नवमोके च । 'इह तोटकमम्बुधिसैः प्रथितम्' इति
वृत्तरत्नाकरे तलक्षणात् ॥