This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'सीताभिज्ञानदर्शनं' नाम दशमः सर्गः - २६१
कारो द्विविधः शब्दालंकारोऽथीलंकारश्चेति । तत्र पूर्वो द्विविधः । अनुप्रासो
यमकं चेति उभयं दर्शयन्नाह -
 
अनुप्रासवत्-
८११ - अंथ स वल्क दुकूल-कुथाऽऽदिभिः
परिगतो ज्वलदुद्धत-वालधिः ॥
उदपतद् दिवमाकुल- लोचनैर्
नृ-रिपुभिः स-भयैर॑भिवीक्षितः ॥ १ ॥
 
अथेत्यादि - अथ दाहादेशानन्तरं स वानरो वियदाकाशमुदपतत् उत्पति-
तवान् । वल्कं अंशुकन् । शुल्क-वल्को-ल्का इति निपातनम् । आदिशब्दाद-
न्यैरपि 'मुजादिभिः परिगतः परिवेष्टितः । ज्वलनुद्धत ऊर्ध्वीकृतो वालविः पुच्छं
यस्य सः नृरिषुभिः राक्षसः । समयैराकुललोचनैरभित्रीक्षितः किमयमनुष्ठास्य-
तीति । अनुप्रासवदिति अनुप्रासो यस्मिन् विद्यत इति । तस्य च लक्षणं-
'सरूपवर्णविन्यासमनुप्रासं प्रचक्षते' इति ॥
 
यमकस्यापि लक्षणम् – 'तुल्य श्रुतीनां भिन्नानामभिधेयैः परस्परम् । वर्णानां
यः पुनर्वादो यमकं तन्निरूप्यते ॥ इति । तदनेकविधं दर्शयन्नाह -
युक्पाद - यमकम्
 
८१२ - रेण-पण्डितो ऽग्य - विबुधाऽरि- पुरे
 
कलहं स राम-महितः कृतवान् ॥
ज्वलदुनि रावण - गृहं च बलात्
कलहंस राममं हितः कृतवान् ॥ २ ॥
 
रणेत्यादि —स कपिः वियदुत्पतितो राममहितो रामपूजितः । रणपण्डितो
युद्धकुशलः । अभ्यविबुधारिपुरे अग्र्यो यो विबुधः इन्द्रः तस्य यो रिर्दशानन-
स्तस्य पुरे लङ्कायां कलहं कृतवान् । कलहंसान् रमयतीति कलहंसरामम् । रमे-
र्ण्यन्तात्कर्मण्यण् । तादृशं रावणगृहं बलाद्वार्यमाणोऽपि ज्वलदभि दीप्यमानपा-
वकं । कृतवान् कृतं विद्यते यस्येति कृतापेक्षीत्यर्थः । अहितः शत्रुः । युकूपाद-
यमकमिति युजोर्द्वतीयचतुर्थयोः पादयोर्य मितत्वात् ॥
 
पादाऽन्त-यमकम् -
 
८१३ - निखिला ऽभवन् न स-हसा सहसा
ज्वलनेन पूः प्रभवता भवता ॥
 
१ – द्रुतविलम्बितं वृत्तमिदम् - द्रुतविलम्बितमाह नभौ भरौ इति तलक्षणात्
 
२ - इतः श्लोकद्वये प्रमिताक्षरा वृत्तम् । 'प्रमिताक्षरा स-जस-सैः' इत्युक्तत्वात् ।