This page has not been fully proofread.

२६० भट्टि काव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे प्रथमो वर्गः,
 
तत् ध्रुवमवश्यं त्वं न स्वरसि न चेतयसि । कुतः बाहुपीडितः सन् मूर्च्छावान्
जातः । अत एव न सरासे येनैवमुक्तवानासे 'निजधानान्यसंसक्तम्' इति ॥
८०९ - अ सद् बन्धु-वधोपज्ञं विमुञ्च बलि-विग्रहम् ॥
 
सीताम॑र्पय नन्तव्ये कोश-दण्डाऽऽत्म-भूमिभिः.'१३६
असदित्यादि — यतो बलवद्भ्योऽपि वलीयान् रामः तस्माइलिना रामेण
सह विग्रहं मुञ्च यज । कीदृशम् । बन्धुवधोप॑ प्रथमतो ज्ञातिविनाशेन विदि-
तमित्यर्थः । उपज्ञायत इत्युपज्ञा । '२८९७ । इगुपध-।३।१।१३५॥' इति कः ।
बन्धुवधस्योपज्ञेति सः । '८२४। उपज्ञोपक्रमम्- ।२।४।२१।' इति नपुंसकलिङ्गिता ।
तत्सामानाधिकरण्यादसदिति नपुंसकलिङ्गिता । नन्तव्ये प्रणामा । कोशदण्डा-
व्मभूमिभिः सह सीतामर्पय ॥
 
८१० - स्फुट परुषर्म - सह्यमित्थर्मुच्चैः
 
सदसि मरुत्-तनयेन भाष्यमाणः ॥
परिजनम॑भितो विलोक्य दाहं
 
दश वदनः प्रदिदेश वानरस्य ॥ १३७ ॥
इति भट्टिकाव्ये नवमः सर्गः ॥
 
इति प्रकीर्णकाः ।
 
स्फुटेत्यादि - इत्थं स्फुटपरुषं उक्तप्रकारेण स्फुटं स्पष्टं, परुपं रूक्षं अत
एवास सोढुमशक्यम् । उच्चैर्महता ध्वनिना सदसि सभायां मरुत्तनयेन भाग्य-
माणोऽभिहितः, इत्थमित्यनेन वस्तुनः परिसमापितत्वात् । तेन वर्तमानसामीप्य
इति लट् । परिजनमभितः उभयपार्श्वे स्थितान् भृत्यान् विलोक्य वानरस्य दाहं
प्रदेश आदिष्टवान् ॥
 
इति श्री जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री भट्टिकाव्ये
द्वितीयेऽधिकार-काण्डे लक्षण-रूपे चतुर्थः परिच्छेदः (वर्गः ),
तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः ॥ ९ ॥
 
दशमः सर्गः-
शब्दलक्षणमुक्तमपि लक्षयन् काव्यलक्षणार्थं प्रसन्न काण्डमुच्यते-
स्यात्र प्रसन्नत्वात् । प्रथमं चेदं लक्षणं यत् प्रसन्नता नाम 'अविद्वदङ्गनाबालप्रती-
तार्थ प्रसन्नव दिति । शब्दलक्षणं पुनः प्रकीर्णमेव द्रष्टव्यम् । तत्रास्मिन् काण्डे
चत्वारः परिच्छेदाः । अलंकार- माधुर्य प्रदर्शन-दोषाः भाषासमावेशश्चेति । तत्रालं-
१ – अपरवऋमिदं वृत्तम् । तलक्षणं च – - 'अयुजि न-न-र-ला गुरुः समे न्जमपरवमिदं
ततो ज-रौं' इति वृत्तरत्नाकरे भ० के० आह.