This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः- २५९
 
--
 
८०३ - अभिमान फलं प्रोक्तं यत् त्वया राम-विग्रहे, ॥
विनेशुस् तेन शत-शः कुलान्येसुर रक्षसाम् ॥१३०॥
 
-
 
अभीत्यादि - 'मा भूडामविग्रहे रत्नादिलाभः अभिमानफलं महत्त्वमस्ति' इति
या मोक्तं तेन निमित्तेन शतशोऽनेकशः असुररक्षसां कुलानि विनेशुः विनष्टानि ॥
 
८०४ - यत् स्व-धर्मर्म-धर्म त्वं दुर्-वलं प्रत्यपद्यथाः ॥
 
रिपौ रामे च नि:-शङ्को, नैतत् क्षेमंकरं चिरम् ॥ १३१॥
यत्स्वेत्यादि - यदधर्म परस्त्रीभोगहरणं दुर्बलं असारं अश्रेयसां आवाहक-
त्वान् । स्वधर्ममात्मीयमाचारं त्वं प्रत्यपद्यथाः प्रतिपन्नवानाम 'स्वधर्म एत्र नरा-
शिनाम्' इति । लङि श्यनि रूपम् । यच्च रिपो रामे निःशङ्कः निर्भयः विहरसि
'का सशकता त्वयि' इति । तदेतदुभयमपि न चिरं क्षेसंकरं कल्याणकरम् ।
' २९६१। क्षेम - प्रिय-मद्रे ऽण्च ।३।२।४।४।' इति खच् ॥
 
८०५ - अन्वया॒ऽऽदि विभिन्नानां यथा सख्यम॑नी॒ीप्सितम् ॥
 
.
 
नैषीर्, विरोधम॑प्यैवं साधं पुरुष-वानरैः ॥ १३२ ॥
अन्वयेत्यादि – यथा नरादीनां अन्वयादिभिर्दूरविभिन्नत्वात् सख्यमनीप्सितं
आप्तुमनिष्टं, एवं पुरुषवानरैः सार्धं विग्रहमपि नैषी: नेष्टवानाम् ॥
८०६ - विराधं तपसां विघ्नं जघान विजितो यदि ॥
 
वरो धनुर्-भृतां रामः स कथं न विवक्षितः ? १३३
विराधमित्यादि – तपसां विघ्नं विराधम् । विहन्यतेऽस्मिन्निति 'घजथे
कविधानम्' इति कः । तादृक्छलेनापि हन्तुं न दोषायेति दर्शयति- धनुर्भृतां
वरः श्रेष्ठः सन् विजितोऽभिभूतोऽपि, रामो यदि जघान स कथं न विवक्षितः ? ।
यतो राममध्यसौ जितवान् ॥
 
८०७ - प्रणश्यन्नपि ना ऽशक्नोदत्येतुं बाण-गोचरम् ॥
 
त्वयैवोकं महा-मायो मारीचो राम हस्तिनः ॥१३४॥
 
प्रणश्यन्नित्यादि — मारीचः प्रणश्यन्नपि पलायनपरो ऽपि सन् महामायः
कनकमृगरूपधारित्वात् । रामहस्तिनः रामो हस्तीव तस्य बाणगोचरं बाणपदव
अत्येतुं अतिक्रमितुं नाशक्नोत् न शक्तवानिति स्वयैवोकं ममारेत्यभिधता, न
मया । यदि शक्नोति अतिक्रमितुं न ममार ॥
 
८०८ - अन्याऽऽसक्तस्य यद् वीर्य न त्वं स्मरसि वालिनः ॥
 
मूर्च्छा-वान् नमतः संध्यां ध्रुवं तद् बाहु-पीडितः १३५
अन्येत्यादि – संध्यां देवतां नमतः अन्यासक्तस्य वालिनो यद्वीर्य सामर्थ्य