This page has not been fully proofread.

२५८ भट्टि काव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे चतुर्थी वर्गः,
 
एक इत्यादि — एकेनापि विराधेन प्रथमं द्वावपि जितौ ताभ्यां पञ्चद्धतः ।
तत्रापि न प्रकाशं अपि तु छलेन । यतो ऽसौ मूढोऽल्पबुद्धिः । तथाप्यविवक्षितः
'शौर्यान्न प्रतीतः । तेनापि हतेन तव विस्मयो जातः ॥
७९८ - मन्- नियोगाच् च मारीचः पलायन-परायणः ॥
 
-
 
युयुत्सा-रहितो रामं ममारा ऽपहरन् वने ॥ १२५ ॥
मन्नियोगादित्यादि — मारीचस्तु यतो राममपहरन् ममार । मन्नियोगा-
दादेशात् । पलायनपरायणः अपसर्पणनिष्टः सन् । पलायनपरायण इति परस्य
नामरूपत्वादनुपसर्गत्वान्न लत्वम् । युयुत्सारहितः योद्धुमिच्छारहितः । मन्नियो-
गादिनि '१३७३ । प्रत्ययोत्तरपदयोश्च ।७।२।९८१' इति अस्मदो मदादेशः ॥
७९९ - निजघाना ऽन्य संसक्तं सत्यं रामो लता-मृगम् ॥
 
M
 
त्वमेव ब्रूहि संचिन्त्य, युक्तं तन् महतां यदि ॥१२६॥
निजघाने त्यादि - रामो लतामृगं वानरं वालिनं निजघानेति सत्यमेतत् ।
किंतु अन्यसंयुक्तं सुग्रीवेण सह युध्यरानं हतवान् । तच त्वमेव संचिन्त्य ब्रूहि
युक्तं तन्महतां यदि ।
 
८०० - पुंसा भक्ष्येण बन्धूनार्मात्मानं रक्षितुं वधः ॥
 
क्षमिष्यते दशाऽऽस्येन, क्व-त्यैयं तव दुर्मतिः.' १२७
पुंसेत्यादि-आत्मानं रक्षितुं पुंसा भक्ष्येण भक्षणार्हेण । सतां बन्धूनां
खरदूषणादीनां बधो दशास्येन क्षमिप्यते सहिप्यते कत्येयं क्वभवेयं तव दुर्मति-
बुद्धिः । कशब्दात् '१३२४ । अव्ययाय । ४।२।१०४।' 'अमेह क्व-त-सि-त्रेभ्यः'
इति परिगणनात् ॥
 
इदानीं कपिर्दशाननोकं दूषयन्नाह -
८०१ - कपिर् जगाद
 
-
 
द्रुम - राक्षस - विध्वंसमका बुद्धि-पूर्वकम् ॥ २२८ ॥
कपिरित्यादि — तव दर्शने अन्य उपायो नास्तीति बुद्धिपूर्वकं निरूप्य द्रुम-
भङ्गं राक्षसविनाशं च उपायमकार्षं कृतवानस्मीति कपिर्जगाद । अन्यथा दूतो-
हमागत इति मदावलिप्तः को मां गणयेत् ? । अतः सदृशमेव मया कृतमिति ॥
 
- 'दूतो ऽहर्मुपायं तव दर्शने ॥
 
-
 
"
 
८०२
- आ - त्रिकूटर्मकार्पुर् ये त्वत्- का निर्-जङ्गमं जगत् ॥
 
दशग्रीव ! कथं ब्रूषे ? तान॑-वध्यान् मही-पतेः ॥१२९॥
आत्रीत्यादि — हे दशग्रीव ! ये त्वत्काः त्वग्रामणीकाः कबन्धादयः । '१८७८
स एषां ग्रामणीः ।५।२।७८ ।' इति कन् । आ त्रिकूटं त्रिकूटपर्वतमभिव्याप्य जगत्
निर्जंङ्गमं निर्जन्तुकमकार्षुः । तान् महीपतेः रामस्य कथमवध्यान् ब्रूषे ? ।
अशिष्टनिग्रहो हि महीपतेर्धर्मः । जङ्गम इति गमेर्यङ्लुगन्तस्यापि रूपम् ॥
 
.