This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवनः सर्गः- २५७
हतेत्यादि- इ-हताः राक्षसयोधाः अक्षमभृतयो येन । विरुग्णा भग्नाः ।
१३०१९ । ओदितश्च ।८।२।४५॥ इति निठानत्वम् । उद्यानशाखिनो येन । तस्यैवंवि-
धस्य तब दूतो ऽस्मीति त्रुवाणस्य किं दूतसदृशम् ? । संदेशमात्रस्य प्रापका हि
दूता इति भावः ॥
 
अभ्याहितजवन वापसे कस्मात्संरम्भ इत्याह-
७९३ – पशु-वाल स्त्रियो निघ्नन् कवन्ध-खर-ताडकाः ॥
 
5
 
तपस्वी यदि काकुत्स्थः कीदृक् ? कथय पातकी. १२०
पडयालेत्यादि- पमहविकलं कवन्धं, बालं खरं, स्त्रियं ताडकां निशन्
व्यापादयन् यदि तपस्त्री काकुत्स्थः कीदृक् पातकीति कथय । '१०१८ । इर्द-
किमोरीश की ।६।३।९० ॥
 
यदुक्तं 'यं विनिर्जित्य स्त्रियो रत्तनुसयश्च न लभ्यन्ते' इत्याह -
७९४–अभिमान-फलं जानन महत्त्वं कथर्मुक्तवान् ॥
 
-
 
रत्ना॒ऽऽदि-लाभ-शून्य - त्वान् निष्फलं राम-विग्रहम् १२१
अभीत्यादि – अभिमानः फलं यस्य महत्त्वस्य तज्जानन् रखादिलाभशून्यं
रामविग्रहं कथं निष्फलमुकवानासे ? । विग्रहे सति अभिमानफलं महत्त्वं स्यात् ॥
'सीतां प्रत्यर्पयन् धर्मनामुहि' इत्येतदप्ययुक्तमित्याह --
७९५-पर-स्त्री-भोग-हरणं
 
धर्म एव नराऽशिनाम् ॥
 
,
 
मुखम॑स्तत्य॑भाषिष्ठाः, का ? मे सssशङ्कता त्वयि १२२
परेत्यादि – परस्त्रीणां हरणं परेषां भोगहरणं च द्वयमपि नराशिनां धर्म
एव आचार एव । अतो मुखमस्तीत्यभाषिष्टाः अभिहितवानसीति सीतां प्रत्यर्प-
यन् धर्ममामुहीति । लुङि रूपम् । भयात् प्रत्यर्पयसि चेदाह -का मे साशङ्कता
वयीति त्रैलोक्यविजयित्वात् । त्वयीति हनुमव्यपदेशेन रामं सूचयति ॥
 
'संगच्छ रामसुग्रीवौ' इत्येतदपि न घटत इत्याह-
७९६ - ब्रूहि दूर-विभिन्नानार्मृद्धि-शील-क्रिया॒ऽन्वयैः ॥
 
-
 
हनूमन् ! कीदृशं सख्यं ? नर-वानर रक्षसाम् ॥ १२३॥
ब्रूहीत्यादि — ऋच्या विभूत्या, शीलेन स्वभावेन, क्रियया अनुष्ठानेन,
अन्वयेन कुलेन दूरविभिन्नानां नरादीनां कीदृशं सख्यमिति ? हे हनूमन् !
त्वमेव ब्रूहि ॥
 
'विराधादिभिर्ज्ञापितोऽसि याडगरिः' (७८९) इत्यत्रोत्तरमाह -
७९७ - एको द्वाभ्यां विराधस् तु जिताभ्याम॑-विवक्षितः ॥
हतशू छलेन मूढोऽयं, तेना ऽपि तव कः स्मयः ? १२४