2023-02-15 17:22:28 by ambuda-bot
This page has not been fully proofread.
२५६ भट्टि काव्ये - द्वितीयेऽधिकार
काण्डे लक्षण-रूपे चतुर्थी वर्गः,
कुर्वन्तीति '२९३५ । दिवा - विभा ।३।२।२१।' इति टः । कपि-यूथपा नीलप्रभु-
तयः । तस्मान्मुञ्च मैथिलीमिति ॥
किंच सीताप्रत्यर्पणात् पुरुषार्थप्राप्तिरिति दर्शयन्नाह --
७८८ - धर्म प्रत्यर्पयन् सीतामर्थ रामेण मित्रताम् ॥
कामं विश्वास वासेन सीतां दत्त्वा ऽऽनुहि त्रयम्. ११५
धर्ममित्यादि - सीतां प्रत्यर्पयन् धर्मम् । अधर्मविरतेः अर्थम् । रामेण
त्रताम् । सर्वलाभानामर्थसंपन्नमित्रलाभस्य महत्त्वात् । विश्वासवासेन रामवि-
श्वासपूर्वकेणावस्थानेन कामम् । अतः सीतां दत्त्वा आप्नुहि लभस्व । त्र्यं त्रिवर्ग
त्रयोऽवयवा अस्येति । १८४४ । द्वि-त्रिभ्यां तयसायज्वा ।५।२।४३॥ ॥
रिपुरेवास्तु किं तेन मित्रीकृतेन, न वासौ शक्तोऽपकर्तुमिति चेद्राह-
७८९ - विराध - ताडका - बालि-कबन्ध - खर-दूषणैः ॥
न च न ज्ञापितो याहङ् मारीचेना ऽपि ते रिपुः ॥ ११६॥
विराधेत्यादि — यादृगसौ रिपुः तादृग्विराधादिभिः न च न ज्ञापितः तव ।
अपि तु ज्ञापित सुवेत्यर्थः । तस्मात्तेन सह मैत्री युक्ता न विग्रह इति भावः ।
याहगिति '४२९ । यदादिषु दृशः - । ३शश६०॥ इति किन् । '४३० । आ
सर्वनाम्नः । ६।३।९१ ॥ ॥
खरादीन् व्यापादयता तेनैव वैरकारणमाचरितं न मयेति चेदाइ -
७९० – खरा॒ऽऽद-निधनं चा ऽपि मा मंस्था वैर-कारणम्, ॥
आत्मानं रक्षितुं यस्मात् कृतं तन्न जिगीपया'. ११७
खरेत्यादि
—–— खरादिनिधनं चापि वैरकारणं मा भंस्थाः मा ज्ञासीः । लुङि
रूपम् । यस्मादात्मानं संरक्षितुम् तत् खरादिनिधनं कृतं, न तु जिगीपया
विजेतुमिच्छया ॥
७९१ - ततः क्रोधाऽनिलाऽऽपात-
कम्प्रा॒ऽऽस्या॒ऽम्भोज-संहतिः ॥
महा-हद इव क्षुभ्यन्
कपिमह स्म रावणः ॥ ११८ ॥
तत इत्यादि — ततः कपिवाक्यानन्तरं क्रोधोऽनिल इव तस्यापातेन संश्लेषेण
कम्प्रा कम्पनशीला आस्याम्भोजानां मुखपद्मानां संहतिर्यस्य स एव महाहूद इव
क्षुभ्यन् चलन् । दिवादित्वाच्छयन् ॥
७९२ - 'हत-राक्षस-योधस्य विरुग्णौद्यान-शाखिनः ॥
दूतो ऽस्मीति ब्रुवाणस्य किं ? दूत- सदृशं तव ॥११९ ॥