This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः- २५५
रावणं प्रोचे वक्तुं प्रवृत्तः । वाक्यं वक्ष्यमाणं सानुनयं अनुकूलम् । किमर्थं
स्वार्थस्य सिद्धये । स्वार्थश्च सोताप्रत्यर्पणम् ॥ ॥ इति णत्वाधिकारः ॥
 
इतः प्रभृति प्रकीर्णकश्लोकानाह-
७८३ - 'दूतमेकं कपिं वद्धर्मानीतं वेश्म पश्यतः ॥
 
-
 
लोक - त्रय पतेः क्रोधः कथं तृण-लघुस् तत्र. ॥११०॥
दूतमित्यादि - दूतं संदेशस्य हारकं एकमद्वितीयं बद्धं अस्वतन्त्रीकृतं वेश्मा-
नीतं पश्यत इति सर्वमेतन्न रोषकारणम् । अतो लोकत्रयपतेस्तवायं तृणवल्लधुर-
सारः कथं कोपः ॥
 
-
 
७८४ – अन्याहित जन-प्र विजिगीपा-पराङ्मुखे ॥
 
कस्माद् वा नीति निष्णस्य संरम्भस् तव तापसे. १११
अग्नीत्यादि —–अनयाहितजनप्रह्वे आहिताग्नौ जने प्रवणे । वाहिताझ्यादिषु
पूर्वनिपातः । तस्मिन् विजिगीषापराङ्मुखे त्यक्तराज्यत्वात् तापसे रामे । '१९०९॥
तपःसहस्राभ्यां विनीनी ।५।२।१०२।' । '१९१० । अण् च ।५।२।१०३।' इत्यण् ।
नीतिनिष्णस्य तव । नीतौ पटुप्रज्ञस्य कस्माद्धेतोः संरम्भः रोषः ॥
७८५ - न सर्व-रात्र कल्याण्यः स्त्रियो वा रत्न-भूमयः ॥
 
यं विनिर्जित्य लभ्यन्ते, कः कुर्यात् तेन विग्रहम्. ११२
नेत्यादि—यं विनिर्जित्य सर्वरात्रं कल्याण्यः स्त्रियो न लभ्यन्ते । सर्वाश्च ता
रात्रयश्चेति '७२६ । पूर्वकाल ।२।१।१९।' इति सः । ८७८७ । अहः सर्व-।५।४।८७ ।
इत्यादिना अच् । सर्वरात्रं कल्याण्य इति सः । न रत्नभूमयः रत्नाकरा: रत्नानि
भूमयश्चेति सः । कः तेन सह विग्रहं कुर्यात् सन्धिरेव युक्तः ॥
 
=
 
तदेव दर्शयन्नाह -
 
७८६ - संगच्छ राम-सुग्रीवौ भुवनस्य समृद्धये ॥
 
रत्न-पूर्णावि॑वा ऽम्भोधी हिमवान् पूर्व-पश्चिमौ. ११३
संगच्छेत्यादि-यथा रखपूर्णांवम्भोनिधी पूर्वपश्चिमी भुवनस्य समृद्धये
हिमवान् संगतवान् तथा त्वमपि रामसुग्रीवौ भुवनस्य समृद्धये संगच्छ संगति
कुरु । सकर्मकत्वात् '२६९९ । समो गमि-।१।३।२९। इति तङ् न भवति ॥
तञ्च संततं परदारार्पणेनैवेति दर्शयन्नाह -
 
""
 
७८७ - सुहृदौ राम-सुग्रीवौ, किंकराः कपि-यूथ-पाः ॥
पर-दारा॒ऽर्पणेनैव लभ्यन्ते, मुञ्च मैथिलीम् ॥११४॥
सुहृदावित्यादि —रामसुग्रीवौ सुहृदौ लभ्येते । ८८८ । सुहृदुहृदौ मित्रा-
मित्रयोः–।५।४।१५०।' इति निपातनम् । तत्प्रीतिलाभात् किङ्करा लभ्यन्ते । किं