This page has not been fully proofread.

२५४ भट्टि काव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे चतुर्थी वर्गः,
७७८–कः कृत्वा रावणा॒ऽऽमर्प- प्रकोपणम॑वद्य-धीः ॥
 
शक्तो जगति शक्रो ऽपि कर्तुमा॑युः - प्रगोपणम् ॥१०५॥
कः कृत्वेत्यादि - अवद्यधीः योऽबुद्धिः रावणामर्पस्य प्रकोपणमभिवृद्धिं कृत्वा
आयुःप्रगोषणं कर्तुं शक्रोऽपि कः शक्तः । '२८३७ । हलश्चेजुपधात् ।८।४।३१।
इति णत्वम् । कुपगुपयोर्हलन्तयो रिगुपधत्वात् ॥
 
७७९ - वनाऽन्त-प्रेङ्खणः पापः फलानां परिणिंसुकः ॥
 
प्रणिक्षिष्यति नो भूयः प्रणिन्द्या ऽस्मान् मधून्य॑यम् ॥
वनेत्यादि — प्रेङ्खति गच्छतीति अपूर्वादिङ्खेः कर्तरि ल्युट् । वनान्तय वन-
समीपस्य प्रेङ्खणः । '२८३८ । इजादेः सनुमः ।८।४॥३२॥ इति णत्वम् । फलानां
परिणिंसकः भक्षयिता । '१०९६ । णिसि चुम्बने' इत्यस्य रूपम् । अस्मान् प्रणिन्द्य
तिरस्कृत्य । भूयः पुनरप्ययं मधूनि नोऽस्माकं प्रणिक्षिष्यति भोक्ष्यति । '७०७।
णिक्ष चुम्बने' इत्यस्य रूपम् । १२८३९ । वा निस- निक्ष- निन्दाम् । ८।३।३३॥
इति त्वम् ॥
 
७८० - हरेः प्रगमनं नाऽस्ति, न प्रभानं हिम-द्रुहः ॥
 
,
 
·
 
॥ १०७ ॥
चन्द्रस्य वा
 
ना ऽति - प्रवेपनं वायोर् मया गोपायिते वने
हरेरित्यादि- - मया गोपायिते रक्षिते वने हरेरिन्द्रस्यापि
प्रगमनं संचारो नास्ति । हिमद्रुहः आदित्यस्य न प्रभानं न प्रकर्पेण दीप्तिः ।
चायोर्नातिप्रवेपनं मन्दगमनम् । तदनेन भग्नमित्यर्थात् । २८३५ । कृत्यचः
१८ । १४।२९॥ इति प्राप्तस्य णत्वस्य '२८४० । न भा-भू-पू- कमि-गामि - ।८।४।३४॥
इत्यादिना प्रतिषेधः ॥
 
७८१ - दुष्पानः पुनरैतेन कपिना भृङ्ग-संभृतः ॥
 
3
 
प्रनष्ट - विनयेना ऽयः स्वादुः पुष्पाऽऽसवो वने. १०८
दुप्पान इत्यादि - पुनरेतेन प्रनष्टविनयेन कपिना पुप्पासवो दुष्पानः
दुःखेन पास्यत इति '३३०९। आतो युच् ।३।३॥२८।' । '३३१०॥ पापदान्तात्
।८॥४।३५॥ इति णत्वस्य प्रतिषेधः । भृङ्गसंभृतो भ्रमरसंचितः । प्रनष्ट इति
८ २९१८ । नशेः षान्तस्य ।८।४।३६।' इति प्रतिषेधः । अग्र्यः श्रेष्टः ॥
७८२ – रोप-भीम-मुखेनैवं क्षुभ्रतक्ते, प्लवङ्गमः ॥
 
प्रोचे सऽऽनुनयं वाक्यं रावणं स्वाऽर्थ-सिद्धये.१०९
इति णत्वाऽधिकारः ।
 
-
 
रोषेत्यादि – रोष भीममुखेन इति '१०५७। पदव्यवायेऽपि ।८।३॥३८।'
इति णत्वप्रतिषेधः । भीममुख इत्यनेन निमित्तनिमित्तिनोर्व्यवधानात् ।
'७९२ । क्षुम्नादिषु च । ८ । १४॥३१।' इति णत्वप्रतिषेधः । एवमुक्ते सति लवङ्गमः